________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ (६-४-६६ ) त्यपि परे घुमास्थादेरीखं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । 'मीनातिमिनोति-' (सू २५०८) इत्यात्वम् । प्रमाय । निमाय । उपदाय । 'विभाषा लीयतेः' (सू २५०६)। विलाय विलीय। णिलोगः । उत्तार्य । विचार्य । ३३३६ ल्यपि लघुपूर्वात् । (६-४-५६) लघुपूर्वापरस्य गेरयादेशः स्याल्ल्यपि । विगणय्य । प्रणमय्य । प्रवेभिदय्य । लघुपूर्वात् किम् । संप्रधार्य । ३३३७ विभाषाऽऽपः। (६-४-५७) नेत्यर्थः । न ल्यपि । 'धुमास्थागापाजहातिसाम्' इत्यनुवर्तते । 'ईद्यति' इत्यतः ईत् इति च । तदाह ल्यपि परे इत्यादि । धेडिति । प्रकृतिप्रदर्शनम् । प्रधायेति। 'आदेचः' इत्यात्त्वम् । प्रपायेति । निपीयेति तु पी पाने इत्यस्य रूपम् । प्रसायेति । 'षोऽन्तकर्मणि' इत्यस्य रूपम् । लीङः क्त्वो ल्यपि प्रात्वविकल्पं स्मारयति विभाषा लीयतेरिति । णिलोप इति । उत्पूर्वात् तृधातोणिचि वृद्धौ रपरत्वे उत्तारि इति रूपम् । विपूर्वाच्चरधातोणिचि उपधावृद्धौ विचारीति रूपम् , ताभ्यां त्यो ल्यपि णिलोप इत्यर्थः । ल्यपि लघुपूर्वात् । ‘णेरनिटि' इत्यतो गरिति 'अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते । तदाह लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्णादिति विग्रहः, णिलोपापवादः । विगणय्येति । 'गण संख्याने' चुरादिः, कथादिरदन्तः । तस्मारिणच् । अतो लोपः । त्वो ल्यपि णरयादेशः । प्रबेभिः दय्येति । भिदधातोर्यङि द्वित्वम् । 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः, जश्त्वं, 'यस्य हलः' इति यकारलोपः, अतो लोपः, क्त्वो ल्यपि णेरयादेशः । विभाषाइति श्रीहर्षप्रयोग इति चेदत्राहुः-पीङ् पाने इति दिवादिगणस्थाद् ल्यपि न दोष इति । इह प्रशाय प्रच्छायेत्यत्र 'शाच्छोरन्यतरस्याम्' इति प्राप्तस्यत्वस्याप्यभावो बोध्यः । लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्णात् । लघुपूर्ववर्णात्परस्येत्यर्थः । विगणय्येति । नन्विह णौ कृतस्याल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वक वर्णात्परत्वं नास्ति । न चारम्भसामर्थ्यम् । अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते-पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् । 'निष्ठायां सेटि' इति लिङ्गात् । तथा चात्र स्थानिवत्त्वाभावागणेरयादेशो भवत्येव । 'निष्ठायां साटे' इत्यस्यानित्यत्वज्ञापकं तु 'अचः परस्मिन् -' इति सूत्र एवास्माभिरुपपादितमिति नात्रोपपाद्यते । प्रणमय्येति । अमन्तत्वान्मित्त्वे मितां ह्रखः। प्रबेभिय्येति । भिदेर्यङन्ताद्वेभिद्येत्यस्मारिणच्यल्लोपे 'यस्य हलः' इति यलोपः । ननु ह्रस्व यलोपालोपानामाभीयत्वेनासिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्यादिति चेन्मैवम् । 'असिद्धवदत्राभात्' इत्यत्र 'समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात्' इति हि व्याख्या