________________
३६० ]
सिद्धान्तकौमुदी। [उत्तरकृदन्त. 'भदो जन्धिः-(सू ३०८०)। 'अन्तरङ्गानपि विधीबहिरको स्यम्बाधते' । जग्धिविधौ ल्यग्रहणात् । तेन हिस्वदस्वास्वत्वदीर्घत्वशूठिटो ल्यपि न। विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । प्रापृच्छय । प्रदीव्य । ३३३५ न ल्यपि । गमेरनुनासिकलोपे तुक् । प्रणत्येति । नमेरनुनासिकलोपपक्षे तुक् । विरम्य विरत्य, प्रयत्य प्रयम्य, इत्यप्युदाहार्यम् । नान्तयोरुदाहरति प्रहत्य प्रमत्येति। हनो मन्य. तेश्च नित्य नलोपः । प्रवत्येति। वनेनित्यं नलोपः तुक् । वितत्येति । तनोते. नित्यं नलोपा, तुक् । भाष्ये तु 'वा ल्यपि' इति सूत्रं न दृश्यते । 'अनुदात' इति सूत्रे 'अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति ‘वा मः' इति च वार्तिकं पठितम् , ल्यपि च अनुदात्तोपदेश इति नलोपो भवति । मकारान्तानां तु वेयर्थः । अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः क्त्वो ल्यपि 'अदो जग्धिय॑पि किति' इति जग्ध्यादेशविधि स्मारयति अदो जग्धिरिति । आदेश इकार उच्चारणार्थः । ननु विधायेत्यत्र 'दधातेर्हिः' इति हिभावः प्राप्नोति । न च तस्य तादौ किति विधानात् ल्यपि कृते कथं तत्प्राप्तिः । अलाश्रयविधौ स्थानिवत्त्वाभावादिति वाच्यम् । परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वाद् हिभावप्रवृत्तेदुर्निवारत्वात् । तथा प्रदायत्यत्र तादौ किति विहितमित्त्वं ल्यपः प्रागेवान्तरङ्गत्वात् प्राप्नोति । तथा प्रखन्येत्यत्र 'जनसनखना सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति । तथा 'यतिस्यतिमास्थामित्ति किति' इति इत्त्वं ल्यपः प्रागेव प्राप्नोति । तथा प्रक्रम्येत्यत्र 'क्रमश्च क्तिव' इति झलादौ क्तिव विहितमुपधादीर्घत्वं ल्यपः प्रागेव प्राप्नोति । तथा श्रापृच्छय प्रदीव्ये. त्यत्र 'च्छ्वोः' इति शूठौ भलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् । तथा प्रदीव्येत्यत्र वलादिलक्षणः इट् ल्यपः प्रागेव प्राप्नोतीत्याशङ्कय आह अन्तरङ्गानपीति । कुत एतदित्यत आह जग्धिविधाविति । 'अदो जग्धिस्ति किति' इत्येतावतैव प्रजग्ध्य इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वाद् जग्ध्यादेशः सिद्धः । अतो ल्यग्रहणम् 'अन्तरजा नपि विधीन् बहिरगो ल्यब्बाधते' इति ज्ञापयति । एवं च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलनणजग्धिभावस्याप्रसक्तः जग्धिविधौ ल्यग्रहणमर्थवदिति भावः। तेनेति । हित्वं दत्वम् आत्त्वम् इत्त्वं दीर्घत्वं शूठौ इट् च ल्यपि ल्यपि कार्यमुदाहरति । अधीत्येति । विधायेति । दधातेहिन । प्रदायेति । 'दो दद्धोः' इति दी| न । प्रखन्येति । 'जनसनखन-' इत्यात्वं न। प्रस्था. येति । 'यतिस्यति-' इतीत्वं न । प्रक्रम्यति । 'क्रमश्च क्त्वा-' इति दी? न । आपृच्छय । प्रदीव्येति । छकारवकारयोश्छोरिति शूठौ न । इडभावस्यो. दाहरणं तु प्रखन्य प्रदीव्येत्यादावेव बोध्यः। न ल्यपि । कथं तर्हि 'निपीय यस्य'