________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५६ पर्युदासाश्रयणाग्नेह । ३३३३ षत्वतुकोरसिद्धः। (६-१-८६) षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् , इह षत्वं न । अधीत्व । प्रेत्य । 'हस्वस्य--' (सू २८५८) इति तुक् । ३३३४ वा ल्यपि (६-४-३८)। अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्यात्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् । प्रागत्य आगम्य । प्रणय प्रणम्य । प्रहस्य । प्रमत्य । प्रवत्य । वितस्य । 'कुगति' इति क्त्वान्तन नि यसमासः । परमकृत्वेति । अव्ययपूर्वपदत्वाभावान ल्यबिति भावः । षत्वतुकोरसिद्धः । 'एकः पूर्वपरयोः' इत्येकादेशप्रकरणे उक्तमिदं सूत्रम् । ततश्च 'असिद्ध' इत्यस्य एकादेश इति शेषः । फलितं त्वाह एकादेश शास्त्रमिति । कार्यासिद्धत्वं निराकृत्य शास्त्रासिद्धत्वस्यैव भाष्ये सिद्धान्तितत्वादिति भावः । कोऽसिचदिति । 'एकः पदान्तादति' इति पूर्वरूपमिहैकादेशः । तस्य 'अन्तादिवच्च' इति परादित्वे श्रोसिचदिति पदम् । तस्य सकारस्य अपदादितया सात्प. दाद्योः' इति निषेधाभावाद् 'आदेशप्रत्यययोः' इति षत्वं प्राप्तम् एकादेशस्यासिद्धत्वान भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य प्रकारेण व्यवधानाद् इणः परत्वाभावात् । तदाह इह षत्वं नेति । षत्वे एकादेशस्यासिदत्वे प्रासनिक मुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धमुदाहरति अधीत्येति । 'इक अध्ययने' निख मधिपूर्वः तस्मात् क्त्वो ल्यप् । प्रेत्येति । प्रपूर्वादिरधातोः क्त्वो ल्यप् । इहोमवत्र सवर्णदीर्घस्य चासिद्धत्वात् 'हखस्य पिति' इति तुक । एकादेशस्यासिद्धत्वामाचे तु ह्रस्वाभावात्तुक् न स्यात् । तदाह हुस्खस्येति तुगिति । वा क्यपि । 'अनुदात्तो. पदेशवनतितनोत्यादीनामनुनासिकलोपः' इत्युत्तरमिदं सूत्रम् । तदाह अनुदात्तेत्यादि । अनुदात्तोपदेशानां वनतितनोत्यादीनां च अनुदात्तोपदेशेत्युक्तो नलोपो ल्यपि वा स्यादित्यर्थः । व्यवस्थितविभाषेति । व्याख्यानादिति भावः । मान्तानिटां वेति । गमनम्म्य मां पाक्षिको मलोप इत्यर्थः । नान्तेति । नान्तेषु मन्यहनावनिटौ, तयोः वनादीनां च 'अनुदात्तोपदेश' इत्यनेन नलोपो नित्यं स्यादित्यर्थः । नान्तानिटामिति बहुवचनं तु प्रयोगबहुत्वाभिप्रायम् । मान्तानामुदाहरति आगत्येति । इति क्त्वान्तेन नित्यं समस्यते । पर्युदासेति । प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवान ल्यबिति भावः । षत्वतुकोः । प्रासङ्गिकषत्वविषयमुदाहरति । कोऽसिचदिति । को असिचदिति स्थिते 'एङः पदान्तादति' इति पूर्वरूपमेकादेशः। तस्य 'अन्ता. दिवच्च' इति परादिवत्त्वेन 'सात्पदायोः' इति निषेधाभावादिणः परत्वेन षत्वं प्राप्तम् एकादेशस्यासिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाभावान्न भवति । प्रकृतं