________________
३७८ ]
सिद्धान्तकौमुदी ।
[ उत्तरकृदन्त
तूष्णीम भुवः । ( ३-४-६३ ) तूष्णींशब्दे उपपदे भुवः क्वाणमुलौ स्तः । तूष्णींभूय तूष्णींभूत्वा तूष्णींभावम् । भूग्रहणं कृञो निवृत्यर्थम् । ३३८६ अन्वच्यानुलोम्ये । ( ३-४-६४ ) धन्वक्छ उपपदे भुवः कश्वाणमुली
धानुकूल्ये गम्यमाने । अन्वग्भूय श्रास्ते । श्रन्वग्भूत्वा श्रन्वग्भावम् । श्रप्रतः पार्श्वतः पृष्ठतो वानुकूलो भूत्वा श्रास्त इत्यर्थः । श्रानुलोम्ये किम् । श्रन्वग्भूस्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ।
इत्युत्तरकृदन्तप्रकरणम् ।
किम् ? द्विधाकृत्य द्वैधं कृत्येत्येवोक्तम् । तूष्णीमि भुवः । ननु 'स्वाङ्गे तस्प्रत्यये कृभ्वोः’ इत्यतः अनुवृत्त्यैव सिद्धे भूमहणं व्यर्थमित्यत आह कृञो निवृत्त्यर्थमिति । अन्वच्यानुलोम्ये । अनूचीत्येव वक्तुमुचितं सौत्रोऽयं निर्देशः । तिर्यच्यपवर्गे इतिवत् । आनुलोम्यम् आनुकूल्यम् । पृष्ठतो भूत्वेति । अग्निप्रथमाः प्रतिपद्यन्ते अन्व. गध्वर्युः' इत्यादी अन्वक्वब्दस्य पृष्ठभागे प्रसिद्धेरिति भावः । इत्युत्तरकृदन्तप्रकरणम् ।
वद्भावेन धमुजादिर्घाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्याक्षिपति । प्रत्ययग्रहणमिति । यद्यप्युक्तरीत्या धाग्रहणेन धमुनादेर्ग्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थ तथापि 'घञन्तात्स्वार्थे डदर्शन' मिति डप्रत्ययान्तसम्प्रहार्थमर्थग्रहणं, तत्फलं तु द्वैधीकृत्येत्यादिप्रयोगः । तूष्णीमि । कृञो निवृत्त्यर्थं तूष्णीङ्ङ्ग्रहणम् । अन्वच्या । नन्विह ‘अचः’ इत्यकारलोपे 'च्वौ' इति पूर्वस्याऽणो दीर्घेऽनूचीति निर्देष्टुमुचितम् । 'युप्रागपागिति' सूत्रे 'प्रती वो य' दितिवत्। एवं 'तिर्यच्यपवर्गे' इति सूत्रेऽपि 'तिरश्ची' त्येव निर्देष्टुमुचितमिति चेत् । श्रत्र केचित् - शास्त्रोक्तं कार्यमर्थवत्येव भवति । श्रर्थश्च लोके प्रसिद्ध एव गृह्यते । 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः' इति न्यायात् । श्रतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति । तच्चिन्त्यम् । एवं तर्हि 'क्षियो दीर्घात्' इत्यादावियङादिकं न स्यात् । 'प्रतीचो य' दित्यपि न सिध्येदिति । वस्तुतस्तु 'प्रकृतिवदनुकरण' मित्यस्य बैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषः । वैकल्पिकत्वं च 'यत्तदेतेभ्यः' इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम् । अत इत्यादि । श्रन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम् । पृष्ठतो भूत्वेत्यर्थ इति । इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यति, तस्य देशविशेषमात्रे पर्यवसानात् । प्रमाणान्तरेण क्वचिदिहानु - कूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या । इत्युत्तरकृदन्तम् ।