SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३४ ] सिद्धान्तकौमुदी। [ पूर्वकृदन्तन निषेधः । ऋमिता । तदहत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । 'गमेरिट-' (सू २४०१) इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं 'न वृद्भ्यश्चतुर्व्यः' (२३४८ )। विवृत्सिता। यङन्ताएण्वुल । अल्लोपस्य स्थानिवत्वास वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः । २८६६ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। (३-१-१३४) नन्द्यादेयुः न्तरमाह-तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेनात्मनेपदविषयत्वम् । ततश्च आत्मनेपदपते इणनिषेधे सति क्रन्तेति रूपम् । आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः। ननु संजिगमिषितेत्यत्र सनः कथमिट , गमेरनिट्सु पाठात् सनः परस्मैपदपरत्वाभावेन 'गमेरिट परस्मैपदेषु' इत्यस्याप्रवृत्तरित्यत आह गमेरिडित्यत्रेति । एवमिति । 'न वृद्भयश्चतुर्थ्यः' इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तडानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति । वृतेः सनि रूपम् । 'हलन्ताच्च' इति कित्त्वान्न गुणः । यङन्तादिति । पचिधातोर्यङन्तात् पापच्येत्यस्माद् रावुलित्यर्थः । तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्कयाह स्थानिवत्त्वान्न वृद्धिरिति । यङ्लुगन्तात्त्विति । यकः संघातस्य लुकः अजादेशत्वाभावेन स्थानिवत्त्वासंभवादुपधावृद्धिर्निर्बाधा। 'न धातुलोप-'इति निषेधस्तु न, यङ्लुकः अनैमित्तिकत्वाद् उपधावृद्धेरिग्लक्षणत्वाभावाच्च । नन्दिग्रहि । नन्दि, ग्रहि, पच एषां द्वन्द्वः । नन्दिप्रहिपचाः श्रादिर्येषामिति विग्रहः । श्रादिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु, णिनि, अच् एषां द्वन्द्वात् प्रथमा । यथासंख्यमन्वयः । तदाह नन्द्यादेरित्यादि । नन्दि इति रायन्तग्रहणाम् । समर्थाभ्याम्' इति क्रमरात्मनपदविषयता। अनन्यभावे विषयशब्द इति । तदन्याविषयत्वे सति तद्विषयत्वमनन्यभावः । तथा च विकल्पाहस्य क्रमः परस्मैपदात्मनेपदोभयप्राप्तिविषयस्वान्निषेधो नेति भावः । संजिगमिषितेति । संपूर्वाद्गमः सन् ‘सन्योः ' इति द्वित्वे हलादिःशेषे 'सन्यतः' इत्यभ्यासस्येत्वम् । 'आर्धधातुकस्य-' इति सन इट् , षत्वम् , सन्नन्तात्तृच् पुनरिट । अल्लोपस्यति । प्राचा तु 'न धातुलोप-' इति सूत्रे इक इत्यनुत्तेढेरनिषेधः पापाचक इत्युक्तम् , तन्न । यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धेः प्राप्त्यभावात् । ननु यङ्लुकि पापाचकरूपाभिप्रायेण तथोकम् । तत्र हि आकारविशिष्ट स्यैव यो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाभावादिति चेत् । मैवम् । एवं तर्हि आर्धधातुकस्य धात्ववयवलोपनिमित्तत्वाभावेन यङ्लुगन्ते 'न धातुलोप-' इति निषेधस्य प्रसक्त्यभावात् । नन्दिग्रहि । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy