________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता [३३ रम्भकः । रब्धा । 'लभेश्च' (सू २५८२ ) । लम्भकः । लब्धा । 'तीषसह-' (सू २३४०)। एषिता, एष्टा । सहिता, सोढा । दरिद्रातरालोपः । दरिद्रिता । 'एखुलि न' । दरिद्रायकः । 'कृत्यल्युटः-' (सू २८४१) इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां हियते पादहारकः । कर्मणि एखुल् । कमेः कर्तर्यात्मनेपदविषयात्कृत इनिषेधो वाच्यः' ( वा ४४२२-४४२३)। प्रक्रन्ता । कर्तरि इति किम्-प्रक्रमितव्यम् । प्रात्मनेपद इति किम् -संक्रमिता। अनन्यभावे विषयशब्दः । तेन 'अनुपसर्गाद्वा' (सू २७१६) इति विकल्पार्हस्य परसवर्णेन ङ इति भावः । नंष्टा, नशितेति । रधादित्वाद्वेट् । इडभावपक्ष 'मस्जिनशोः-' इति नुमि नन्श् तृ इति स्थिते 'व्रश्च -' इति शस्य षः । नस्यानुस्वारः । ष्टुत्वम् । रभेरशब्लिटोरिति । नुम्बिधिरयम् । लब्धेति । 'झषस्तथो-' इति तस्य धः, जश्त्वेन भस्य बः, तीषसहेति । इड्विकल्पोऽयम् । सोढेति । ढत्वधत्वष्टुत्वढलोपाः। 'सहिवहोः-' इत्योत्त्वम् । दरिद्रातरालोप इति । 'दरिद्रातेरालोपो वक्तव्यः-' इत्यनेनेति भावः । एवुलि नेति । 'दरिद्रातेवुलि आल्लोपो नेत्यर्थः । 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः। दरिद्रायक इति । 'आतो युक्' इति भावः । पादाभ्यां ह्रियते पादहारक इत्यत्र कर्मणि एवुलं साधयितुमाह कृत्यल्युट इत्येवेति । 'कृत्यल्युटः' इत्येतावतैव पुनर्वचनबलाद् येष्वर्थेषु ते कृत्यल्युटो विहिताः, ततोऽन्येष्वप्यर्थेषु भवन्तीत्यर्थलाभाद् बहुलग्रहणं योगविभागार्थम् , कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि क्वचिद् भवन्तीति । एवं च कर्मएयपि ण्वुल सिध्यतीत्यर्थः । 'कृतो बहुलम्' इति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः । कमेरिति। आत्मनेपदविषयात् कमेः परस्य कर्तरि कृतो नेडित्यर्थः । 'स्नुकमो:-' इति सूत्रस्थमिदं वार्तिकम् प्रक्रन्तेति । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदविषयोऽयम् । नन्वेवं सति ऋमितत्यत्र कथमिडित्यत आह-अनन्यभावे विषयशब्द इति । वर्तते इति शेषः। आत्मनेपदाविनाभाव इति यावत् । क्रमेः कर्तर्यात्मनेपदिन इति फलितम् । तेनेति । क्रमितेत्यत्र क्रमेः 'अनुपसर्गादा' इत्यात्मनेपदविकल्पविधानाद् नित्यमात्मनेपदित्वाभावाद् इरिनषेधो नेत्यर्थः । मतालब्धेति । 'झषस्तथो:-' इति धः, भकारस्य जश्त्वम् । 'लभेश्च' इति नुम् तु न भवति, अचीत्यनुवर्तनात् । एओलि नेति । 'सनि एलि ल्युटि च न' इति वचनात् । योगविभागेनेति । 'कृत्यल्युटो बहुलम्' इति सूत्रे कृतो बहुलमित्येवाकरे स्थितम् । तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः । प्रक्रन्तेति । 'प्रोपाभ्यां