SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२ ] सिद्धान्तकौमुदी | [ पूर्वकृदन्त कुटिता । श्रदित्युक्रेन डिस्वम् । कोटकः । 'विज इट्' ( सू २१३६ ) । विजिता । ' इनस्तोऽचियणलो:' ( सू २५७४ ) | घातकः 'तो युक् - ' ( सू २७६१ ) दायक: । 'नोदात्तोपदेशस्य -' ( सू १७६३ ) इति न वृद्धिः । शमकः । दमकः । श्रनिटस्तु नियामकः 'जनिवध्योश्च ( सू २५१२ ) । जनकः । 'वध हिंसायाम्' वधकः । 'रधिजभोरचि' ( सू २३०२ ) । रन्धकः । जम्भकः । 'नेव्यलिटि रधेः ( सू २५१६ ) । रधिता, रद्वा । ' मस्जिनशोः -' ( सू २२१७) इति नुम् । मङ्का । नंष्टा, नशिता । ' रमेरशब्लिटो. ' ( सू २५८१) इति भाष्यम् । वोढुमर्ह' इति । 'अर्हे कृत्यतृचश्च' इत्युक्तेरिति भावः । वोढेति । वहेः तृच्यनुदात्तत्वादेिडभावे ढत्वधत्वष्टुत्वढलोपेषु ' सहिवहो: -' इत्योत्त्वम् । कुटि तेत्यत्र लघूपधगुणम|शङ्कयाह गाङिति । तर्हि रावुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्कयाह विज इडिति । इति ङित्त्वमिति शेषः । विजितेति । ङित्त्वान्न गुणः । अनिस्त्विति । तस्यानुदात्तोपदेशत्वादिति भावः । जनक इत्यलोपधावृद्धिमाशङ्कय वृद्धिनिंषधं स्मारयति जनिवध्योश्चेति । वध हिंसायामिति । धात्वन्तरं भौवादिकम्, भ्वादेराकृतिगणत्वात् । नत्वयं हन्तेर्वधादेशः । तथा सति 'जनिवध्योश्च ' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयर्थ्याद् वधादेशस्यादन्ततया श्रल्लोपस्य स्थानिवत्त्वादेव वृद्धयभावसिद्धेः । वधक इति । 'जनिवध्योश्च' इति वृद्धिनिषेधः । रन्धकः जम्भक इत्यत्र इदित्त्वाभावादप्राप्ते नुमि तद्विधिं स्मारयति रधिजभोरचीति । रधितेत्यत्र 'रधिजमो :-' इति नुममाशङ्कयाद नेट्यलिटि रधेरिति । रधिता रद्धेति । 'रधादिभ्यश्च' इति वेद् । मस्ज् तृ इति स्थिते आह मस्जिनशोरिति । नुम्बिधिरयम् । मङ्केति । मस्ज् तृ इति स्थिते 'मस्जेरन्त्यात् पूर्वो नुम् वाच्यः' इति सकारादुपरिजकारात् । प्राङ् नुम् । मस्नूज् तृ इति स्थिते 'स्को:-' इति सलोपः, जस्य कुत्वेन गः, तस्य चर्चेन कः, अनुखारः, तृचोरुभयोर्ग्रहणम् । तेन कोपधग्रहणेन तद्धितयुग् ग्रहणमित्येतत्सिद्धमित्याहुः । वोढेति । 'अ कृत्यतृचश्च' इति सृच्, ढत्वादयस्तु वोढव्य इत्यत्रैवात्राप्यह्याः । रधितेति । 'रधादिभ्यश्च' इति वेद् । रद्धेति । इह 'नेव्यलिटि -' इति निषेधाप्रवृत्तावपि 'रधि- ' इत्यनेन अच्परत्वाभावान्नुम्न | मङ्केति । टुम जो शुद्धौ । श्रस्मात् तृच् 'मस्जि-' इति नुम् अन्त्यात्पूर्वः । 'स्को:-' इति सलोपः । जस्य कुत्वे चर्त्वम् । अनुस्वारपरप्रवण | 'बहूनां समवाये द्वयोर्द्वयोः संयोगः' इति पक्षे तु नुमागमस्याच्परत्वेऽपि 'स्को:-' इति सलोपो भवत्येवेति ज्ञेयम् । नंष्टेति । रधादित्वादिडभावपचे नुम् ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy