________________
३५६] सिद्धान्तकौमुदी। [उत्तरकृदन्तकिद्वा । वचित्वा वञ्चित्वा । लुचित्वा लुञ्चित्वा । ऋतित्वा अर्तित्वा । ३३२६ तृषिमृषिकृषः काश्यपस्य (१-२-२५) एम्यः सेट क्त्वा किद्वा । तृपिस्वा तर्षिस्वा । मृषिवा मर्षिवा । कृषित्वा कर्षिवा | 'रलो ग्युपधात्-' (सू २६१७) इति वा कित्वम् । श्रुतिस्वा द्योतित्वा । लिखित्वा लेखित्वा । रत्नः किम् । सेविस्वा । म्युपधात् किम् । वर्तित्वा । हलादेः किम् । एषित्वा। सेट् किम् । भुक्त्वा । 'वसतिदुधोरिट्' (स ३०४६ ) । उषित्वा । सुधित्वा क्षोधित्वा । 'भोः पूजायाम्' (सू ३०४७) इति नित्यमिट् । अञ्चित्वा । गतौ तु तदभावे तु नेति मत्वा आह । श्रथित्वेत्यादि । कोथित्वा रेफित्वेति । कुथ पूतीभावे, रिफ कत्यनयुद्धहिंसादानेषु । इह 'रलो व्युपधात्' इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् । वञ्चिलुच्यतश्च । 'न क्त्वा सेट्' इत्यस्यापवादः। कित्त्वविकल्पामलोपविकल्पः । ऋतेरुदाहरति । ऋतित्वा अतित्वेति । कित्त्वविकल्पालघूपधगुणनिषेधविकल्पः । ऋतिः सौत्रो धातुः घृणायाम् । तस्यार्धधातुकविषये 'ऋतेरीय' इत्यस्य विकल्पनात् तदभावे कित्त्वमिह विकल्प्यते । तृषि मृषि । 'न क्त्वा सेट्' इत्यस्यापवादः । रल इति । उकारोपधाद् इकारोपधाच्च रलन्ताद् हलादेः परः सन् क्त्वा च सेटौ वा किताविति व्याख्यातं प्राक् । रल प्रत्याहारः। वर्तित्वेति । 'वृतु वर्तने' इत्यस्य रूपम् । एषित्वेति । इषधातोः रूपम् । इह हलादित्वाभावान कित्त्वविकल्पः । किन्तु 'न क्त्वा सेट्' इति नित्यमेव कित्त्वाभावान गुणनिषेधः । वसधातोः दुधधातोश्व अनुदात्तोपदेशत्वाद् इरिनषेधे प्राप्ते तदपवादं स्मारयति। वसतिनुधोरिडिति। उषित्वेति । 'मृडमृद' इति कित्त्वाद् 'वचिस्वपि' इति संप्रसारणम् । 'शासिवसि' इति षः। श्रचुधातोः क्त्वा प्रत्ययस्य 'उदितो वा' इति इड्विकल्पे प्राप्ते आह । अञ्चः पूजायामिति । क्त्वाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना यफान्तादिति लाभात् । कोथित्वा । रोफित्वेति । कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इह 'रलो व्युपधात्-' इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् । वचित्वेति। वचु प्रलम्भने । लुचित्वेति । लुम्चु अपनयने । ऋतित्वेति । ऋतिः सौत्रो धातुघृणार्थकः, तस्यार्धधातुकविषये 'ऋतेरीयङ्' इत्यस्य वैकल्पिकत्वात्तदभावे कित्त्व. मनेन विकल्प्यते । तृषिमृषि । मितृषा पिपासायाम् , मृष तितिक्षायाम् , कृष तनूकरणे । 'नोपधा-' इत्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम् । अश्चेरिति । 'उदितो वा' इति विकल्पप्राप्तावयमारम्भः । अञ्चित्वेति । 'न क्त्वा सेट्-' इति कित्त्वाभावान्नलोपो न । एवं चेह 'नाचेः पूजायाम्' इति नलोपो नेति प्रसादकारो