________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५५ स्कन्वा । अदित्त्वादिड् वा। स्यन्त्वा-स्यन्दित्वा । ३३२२ न क्त्वा सेत् । (१-२-१८) सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा । ३३२३ मृडमृदगुधकुषक्लिशवदवसः क्त्वा । (१-२-७) एभ्यः सेट क्स्वा कित् । मृडिस्वा । 'क्रिशः क्वा-' (स् ३०४६) इति वेट । किशिस्वा । क्रिष्ट्वा । उदित्वा । उषित्वा | 'रुदविद-' (सू २६०६) इति कित्वम् । रुदिस्वा। विदित्वा । मुषित्वा । गृहीत्वा । ३३२४ नोपधात्थफान्ताद्वा (१-२-२३) सेट् क्त्वा कित्स्याद्वा । अथित्वा श्रन्थित्वा । गुम्फित्वा । नोपधात् किम् । कोथित्वा । रेफित्वा । ३३२५ वञ्चिलुच्य॒तश्च । (१-२-२४ ) सेट् क्त्वा किति' इति इग्निषध एव प्रवर्तते इति भावः । क्त्वि स्कन्दिस्यन्दोः । नलोपो नेति । 'श्नान्नलोपः' इत्यतो नलोप इति 'नाचेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः । क्त्वीति । क्त्वाशब्दस्य सप्तम्येकवचनम् । आत इति योगविभागादालोपः । स्कन्वेति । स्कन्दिर् धातोः रूपम् । अनुदात्तोपदेशात्वान्नेट । स्यन्दूधातोः क्त्वाप्रत्यये आह । उदित्त्वादिड् वेति । न वक्त्वा सेट् । किन्नेति । 'असंयोगाल्लिट कित्' इत्यतः किदित्यनुवृत्तरिति भावः । शयित्वेति । कित्त्वाभावाद् न गुणनिषेधः । मृडमृद । 'न क्त्वा सेट्' इति निषेधस्यापवादः । मृडित्वेति । कित्त्वान्न लघूपधपुणः । मृदित्वेत्याद्यप्युदाहार्यम् । क्लिश इति । 'क्लिश हिंसायाम्' दिवादौ । ततः क्त्वाश्य यस्य 'क्लिशः क्त्वानिष्ठयोः' इति वेडित्यर्थः । क्लिशू विबाधने' इत्यस्य तु ऊदित्त्वाद्वेट । उदित्वेति । वदधातोः क्त्वाप्रत्ययः । 'वचिस्वपि' इति संप्रसारणम् । उषित्वेति । वसधातोः क्त्वा 'वसतिक्षुधोः' इति इट् , संप्रसारणम् । 'शासिवसि' इति षः । रुदविद इति कित्त्वमिति । न व वा सेट' इति निषेधस्यापवाद इति भावः। नोपधात्थफान्ताद्वा। थफो अन्तौ यस्येति विग्रहः । 'न क्त्वा सेट्' इति नित्यनिषेधे प्राप्ते विकल्पोऽयम् । कित्त्वे सति नलोपः। इत्संज्ञा-' इति वार्तिकादिकारमात्रस्यत्संज्ञा नेति 'अनिदिताम्-' इति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिप्रहणम् । स्कन्वेति । 'एकाच-' इति नेट् । मृडमृद । मृड सुखने, मृड क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां दिवादिः, क्लिशू विबाधने क्यादिः, वद व्यक्तायां वाचि, वस निवासे । किदिति । 'असंयोगाल्लिट् कित्' इत्यतः किदित्यनुवर्तत इति भावः । उदित्वेति । यजादित्वा. त्संप्रसारणम् । उषित्वेति । 'वसतिक्षुधो:-' इतीट् । यजादित्वात्संप्रसारणम् । 'शासिवसि-' इति षः । गृहीत्वेति । 'अहिज्या-' इति संप्रसारणम् , 'अहोऽलिटि' इति इटो दीर्घः । नोपधात्थ । अन्तग्रहणं स्पष्टार्थम् । थफादित्युक्तेऽपि धातोरेव