SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता) [३५३ थाप्राप्तमपि । याचित्वा अपमयते । ३३१६ परावरयोगे च । (३-४-२०) परेण पूर्वस्यावरण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदी पर्वतः। परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । भवरपर्वतयोगोऽत्र नयाः । ३३२० समानकर्तृकयोः पूर्वकाले । (३-४-२१) समानकर्तृकयो. स्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा ब्रजति । मेङः क्त्वाप्रत्ययस्य विकल्पलाभात् तदभावे याचेः पूर्वकालक्रियावृत्तित्वात् समानकर्तृ. कयोरिति क्त्वेति भावः । परावरयोगे च। परावरयोर्योगे इति विग्रहः। योगशब्दस्य प्रत्येकमन्वयः। परयोगे अबरयोगे च क्त्वेति लभ्यते । परेण कस्य योग इत्याकाङ्क्षायाम् अवरस्येति लभ्यते । अवरेण कस्य योग इत्याकाक्षायां परस्येति लभ्यते । तदाह परेण पूर्वस्येति । अवरस्येत्यर्थः परावरशब्दौ हि क्रमात् व्यवहिताव्यवहितदेशवृत्तवाचिनौ। क्त्वा स्यादिति । 'अव्ययकृतो भावे' इति वचना: दयमपि भावार्थक एवं अवरस्य परयोगे उदाहरति अप्राप्य नदी पर्वत इति। क्षिणदेशे निवसतः विन्ध्यं गङ्गां च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् । विन्ध्यस्यो। त्तरत एव हि गङ्गा । तथा च दक्षिणदेशस्थानां गनोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थः, विन्ध्यस्य दक्षिणतो गङ्गाया अभावादिति भावः । तथा च दक्षिणदेशस्थानां विन्ध्यव्यवहिता गङ्गा । दक्षिणदेशीयापेक्षया अव्यवहितस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते । तदाह-परनदीयोगोऽत्र पर्वतस्येति । अथापरेण परस्य योगे उदाहरति अतिक्रम्य पर्वतं स्थिता नदीति । दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिकमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थितेत्यर्थः । अत्र अव्यवहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते । तदाह अवरपर्वतयोगोऽत्र नद्या इति । इह अप्राप्तेरतिक्रमणस्य च विन्ध्यस्थितिपूर्वकालकत्वाभावात् 'समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः । समानकर्तृकयो। समानकर्तृकयोरिति निर्धारणे षष्ठी । पूर्वकाल इत्यस्य प्रणिददातीत्यर्थः । परावर । अप्राप्येति । दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्यः। गङ्गाप्राप्तिविरहविशिष्टदेशस्थो विन्ध्यः इत्यर्थः । अत्र विन्ध्यात्परा गङ्गेति गम्यते। अतिक्रम्यति । दक्षिणदेशस्थानामेवायमपि प्रयोगः । अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते । इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्य. संसर्गा भिद्यन्त इति नास्ति वैयर्थ्यमिति दिक् । समानकर्तृक । इह धात्वधिकारेऽपि सामानकर्तृकत्व क्रिययोरेव संभवतीत्यशयेनाह । धात्वर्थयोरिति । निर्धारण षष्ठी सप्तमी वा। धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy