________________
{३५२ ] सिद्धान्तकौमुदी। [ उत्तरकृदन्त. खल्वोरुपपदयोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । भलंकारः। ३३१७ उदीचां माङो व्यतीहार । (३-४-१६ ) ग्यतीहारेऽर्थे माकः क्त्वा स्यात् । अपूर्वकालार्थमिदम् । ३३१८ मयतेरिदन्यतरस्याम् । (६-४-७०) मेक इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचांग्रहणाद्य. भाष्ये स्पष्टम् । अलंखल्वोः । क्त्वा स्यादिति । भावार्थकोऽयम् । 'अव्ययकृतो भावे' इति वचनात् । एतच्च 'तुमर्थे सेसेन' इति सूत्रे भाष्ये सष्टम् । ननु 'उदीचा माको व्यतीहारे' इत्युत्तरसूत्रे उदीचांग्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाग्रहणं व्यर्थमित्यत आह । प्राचांग्रहणं पूजार्थमिति । न च वाऽसरूपविधिराशयः । तस्य स्त्रियां हिन्' इत्यतः प्रागेव प्रवृत्तेरुक्त वात् । अलं रोदनेनेत्यादि तु बहुलग्रहणासमाधयमित्यलम् । उपपदसमासे ल्यपमाशक्य आह अमैवाव्ययेनेति । अलं दत्त्वेति । दानेन किञ्चिदपि साध्यं नास्तीत्यर्थः । ईत्वं स्मारयति धुमास्थेति । पीत्वा खल्विति। पानेन साध्यं नास्तीत्यर्थः । उदीचां माङो । व्यतीहारो विनिमयः 'समानकर्तृकयोः पूर्वकाले' इत्यनेन सिद्धिमाशङ्क्य आह अपूर्वकालार्थमिति । मयतेरिदन्यतरस्याम् । वाऽन्यस्य संयोगादेः' इत्यतो वेति 'न ल्यपि' इति चानुवर्तते इति भावः । अपमित्य याचत इति । त्वया गौर्दत्ता चेत् मया महिषो दीयते इत्येवं विनिमयं कर्तुं गां याचते इत्यर्थः । इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयोरित्यस्य न प्राप्तिः । प्रत्युत याचनाया एव पूर्वकालिकत्वाद् याचेः क्त्वाप्राप्तिः। गतिसमासे क्त्वो ल्यप् इत्वं तुक् । अपमायेति । इत्वाभावे रूपम् । 'ईयति' इति ईत्वं तु न, 'न ल्यपि' इति निषेधात् । उदीवांग्रहणादिति । तेन याम् , वनु याचने, तनु विस्तारे । अलंखल्वोः । पूजार्थमिति । ननु विकल्पार्थमेवास्तु अलं रुदित्वा अलं रोदनेनेति रूपद्वयसिध्यर्थमिति चन्मेवम् । वासरूपन्यायेनैतत्सिद्धेः । न च ‘क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्न' इति सिद्धान्तात् ल्युटि वासरूपन्यायो नास्तीति वाच्यम् । 'क्तल्युडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्त' इति हि तस्य निष्कृष्टोऽर्थः । इह तु ल्युटोऽपवादः क्त्वा चेति वैषम्यात् । ननु 'त्रैषादिषु कृत्याश्च' इति वचनेन सत्यधिकारादूर्ध्व वासरूपविधिर्नावश्यमस्तीति ज्ञापितमिति चेकिं ततः। 'ज्ञापकसिद्ध न सर्वत्र' इतीष्टानुरोधेन तदभ्युपगमे बाधकाभावात् । अलं दत्त्वेति । अपात्रे न देयमिति फलितोऽर्थः । उदीचाम् । व्यतीहारो व्यतिक्रमः। मेङः कृतात्वस्यायं माङ इति निर्देशो 'नानुबन्धकृतमनेजन्तत्वम्' इति परिभाषां ज्ञापयति, तेन घुसंज्ञायां देपोऽप्यदाबिति पर्युदासः सिध्यति । अपमित्येति । 'समासेऽनपूर्व-' इति वक्ष्यमाणेन क्त्वो ल्यपि तुक् । याचित्वा