________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ३५१ मर्ययोरिस्येव । अवश्यं हरिः सेन्यः। शतं देयम् । ३३१३ लिच्की च संज्ञायाम् । (३-३-१७४) धातोः विक्रश्च स्यादाशिषि संज्ञायाम् । 'तितुत्र-' (सू ३१६३) इति नेट् । भवताभूतिः। ३३१४ न विचि दीर्घश्च । (६-४-३६) अनिटां वनतितनोत्यादीनां च दीर्वानुनासिकलोपो न स्तः निचि परे । यन्तिः । रन्तिः । वन्तिः। तन्तिः । ३३१५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् । (६-४-४५) सनोते. तिच्यावं वा स्याल्लोपश्च वा। सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुः देवदत्तः । ३३१६ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । (३-४-१८) प्रतिषेधार्थयोरलं. कृदित्येव । अवश्यंकारीति । अवश्यमित्यव्ययम् । शतंदायीति । 'अकेनो. भविष्यदाधमर्ययोः' इति षष्ठी न । कृत्याश्चेत्यादि । स्पष्टम् । लिच्क्तौ च ।
आशिषीति । 'पाशिषि लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भावः । भवतादिति। 'आशिषि लोट् । भूतिरित्यस्य विवरणमिदम् । कर्तरि किच् । न क्तिचि दीर्वश्च । अनिटामिति । 'अनुदात्तोपदेश, इति सूत्रमिहानुवर्तते इति भावः। रन्तिरिति । अत्र 'श्रयुकः किति' इ. यस्याप्रवृत्तेः 'तितुत्र' इत्येव नेट् । भूतिरित्यत्र तु परत्वात् 'युकः किति' इत्येवोचितम् । सनः। प्रात्त्वमिति । 'विड्वनोरनुनासिकस्यात्' इत्यतस्तदनुवृत्तेरिति भावः । लोपश्चेति । अन्त्यस्य नकारस्येति शेषः । ते उदाहरिष्यन्नाह देवा एनं देरासुरिति । श्राशीलिङ् । देवदत्त इति । तयोरेवेति कर्मणि क्तः । क्तिचा बाधा मा भूदिति विधिः । अन्यथा अपवादेन तिचा तो बाध्येत । वाऽसरूपविधिस्तु स्त्रियां क्लिन्' इत्यतः प्रागेवेति 'प्रैवातिसर्ग' इति सूत्रे दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः। क्तिच्क्तौ । क्तिचश्चकारो 'न हिचि' इति विशेषणार्थः । न क्त्वा वेत्युक्ते हि तिनोऽपि ग्रहणं, स्यादिति प्राञ्चः । तत्र एकानुबन्धपरिभाषयैव हिनो व्यावृत्तिसिद्धरिति हरदत्तः । यत्तु वदन्ति-तितुत्र-' इत्यत्र सामान्यग्रहणार्थश्चकारः । अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु तिन इति तद्रभसात् । 'तितुत्र- इति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाभावात् । एतेन 'तितुत्र-' इति सूत्रे एकानुबन्धत्वात्तिबेव गृह्यते न त्वयं तिच् । ततश्च रोदितीति रूपं न स्यादिति शङ्काप्यपास्ता। भूतिरिति । यद्यपीह परत्वात् 'भ्युकः किति' इत्येवेगिनषेधो न्याय्यस्तथापि वन्तितन्योरिएिनषे. धार्थमावश्यकत्वात्फले 'वेशेषाभावाच्च 'तितुत्र-' इत्युपन्यस्तम् । दीर्घानुनासिकेति । 'अनुनासिकस्थ क्विझलोः-' इति दीर्घस्य 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपस्य च प्राप्तिरिति बोध्यम् । यन्तिरित्यादि । यम उपरमे, रम क्रीडा