________________
३५० ]
सिद्धान्तकौमुदी |
[ उत्तरकृदन्त
ईषदादयस्तु ततः प्राक् । 'कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम्' ( वा २२४१) । खिवान्मुम् । अनाढ्येन श्राढ्येन दुःखेन भूयते दुराढ्यं भवम् । ईषदाढ्यं भवम् । स्वाढ्यं भवम् । ईषदाढयंकरः । दुराढ्यंकरः । स्वाढ्यंकरः । व्यर्थयोः किम् । श्राढन सुभूयते । ३३०६ श्रतो युच् । ( ३-३-१२८) खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । 'भाषायां शासियुधिदृशिष्टषिमृषिभ्यो युज्ञाच्यः' ( वा २२४३ ) । दुःशासनः । दुर्योधन इत्यादि । ३३१० षात्पदान्तात् । ( ३८ - ३५ ) नस्य णो न । निध्यानम् । सर्विष्यानम् । षात् किम् । निर्णयः । पदान्तात् किम् । पुष्णाति । पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण । ३३११ आवश्यकाधमर्ण्ययोर्णिनिः । ( ३-३ - १७० ) श्रवश्यंकारी | शतदायी । ३३१२ कृत्याश्च । ( ३-३ - १७१ ) श्रावश्यकाध -
1
भूकृञोः कर्तृकर्मणोरित्यस्य च न यथासंख्यमित्यर्थः । ननु कर्तृकर्मणोरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसंनिपाते कथं पौर्वापर्यमित्यत आह कर्तृकर्मणी चेत्यादि । भाष्ये तथैवोदाहरणादिति भावः । च्व्यर्थयोरिति । श्रभूततद्भाव इत्यर्थः । भूयत इति । भावे लट् । दुराढभवमिति । भावे खल् । अत्राढयस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः । दुरस्तु ततः प्राक् । दुराढ्यंकर इति । अनाढ्यः श्रादयः दुःखेन क्रियते इत्यर्थः । अत्र श्रादयः कर्म उपपदम् । ईषदाढयं भवमित्याद्यप्युदाहार्यम् । अत्र ईषद्स्सूनां व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम् । श्रतो युच् । कर्तृकर्मणोरिति नानुवर्तते, स्वरितत्वात् । ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु श्रादन्ताद्धातोर्युच् स्यादित्यर्थः । तयोरेवेति भावे कर्मणि च । खलोऽपवाद इति । वाऽसरूपविधिस्तु न भवति 'क्वल्यु तुमुनखलर्थेषु वाऽसरूपविधिर्न' इत्युक्तेः । दुष्पान इति । 'इदुदुपध' इति षः । भाषायामिति । ‘छन्दसि गत्यर्थभ्यः’ ‘अन्येभ्योऽपि दृश्यन्ते' इत्युत्तरमिदं वार्तिकम् । ईषदुस्स्रुष्वित्येव । खलोऽपवादः । इति । खलर्थाः प्रत्ययाः । आवश्यकाधमर्ययोग्निः । कर्तरि
1
प्राचापि तथैवोक्तं, तद्व्याख्यातृभिश्चानुमोदितं तत्सर्वं नादर्तव्यम् । यथासंख्य सूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह । यथासंख्यं नेष्यत इति । ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति भूकृञोरव्यवाहेतत्वं कर्तृकर्मणोरेवेष्यते न त्वीषदादीनाम् । एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः - बहुलग्रहणानुवृत्त्या दुराढ्यं - भवमिति भाष्योदाहरणाचेष्टव्यवस्था सिध्यतीति तदेतदभिप्रेत्याह । कर्तृकर्मणी चेति । भवतेः कर्तर्युदाहरति । अनाढ्येनाढ्येनेति । कर्मणि त्वनाढ्य आढ्यो भूयते इति विग्रहः । भाव्यते इति तदर्थः । एवमप्रेऽपि विप्रहृद्वयमुन्नेयम् । श्रनाढ्थे - नाढ्येन स्वयमेव क्रियते अनाढ्य श्राढ्यः क्रियत इति । इत्यादीति । श्रादिशब्देन
1