________________
प्रकरणम् ६८ ] बालमनोरमा तत्त्वबोधिनीसहिता [३४६ दुष्प्रमयः । सुवि नयः । निमयः । मयः । लयः । ३३०६ उपसर्गात्खल्योः (७-१-६७) उपसर्गादेव लभेर्नुम् स्यात्। ईषप्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः। उपालम्भः । उपसर्गात् किम्। ईषल्लभः । लाभः । ३३०७ न सुदुभ्यो केव लाभ्याम् । (७-१-६८) उपसर्गान्तररहिताभ्यां सुदुभ्यां लभेर्नुन स्यात्खल्य जोः । सुलभम् । दुर्लभम्। केवलाभ्याम् किम् । सुप्रलम्भः । अतिदुर्लम्भः। कथं तर्हि अतिसुलभमतिदुर्लभ मेति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति । ३३०८ कर्तृकर्मणोश्च भूकृयोः। (३-३-१२७ ) कर्तृकर्मणोरीषदादिषु च भूकृतोः खल स्यात् । 'यथासख्यं नेष्यते' । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । निमय इत्यादि । उपसर्गात्खल्योः । लभेर्नुमिति । 'लभेश्व' इत्यतः 'इदितो नुम्' इत्यतश्च तदनुवृत्तरिति भावः । न सुदुाम् । केवलाभ्यामित्येतद् व्याचष्टे-उपसगान्तरेति । सुप्रलम्भः अतिदुलम्भ इति । अत्र सुदुरोरुपसर्गान्तरसहितत्वा । पूर्वसूत्रप्राप्तस्य न निषेधः । कथं तीति । सुदुरोरुपसर्गान्तरसहितत्वेन नुमोऽनिषेधादिति भावः । समाधत्ते यदेति । 'स्वती पूजायाम्' । यदा पूजार्थकाविमौ कर्म प्रवचनीयौ तदा उपसर्गत्वाभावाद् न सुदुरोपसर्गसहितत्वम् । अतो निषेधो भविष्यतीति भावः । सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् । कर्तृकर्मणोश्च । ककर्मणोरिति सप्तमी । उपपदयोरिति लभ्यते, व्याख्यानात् । चकारादीषदुम्सुध्विति समुच्चीयते । भूकमोरिति पञ्चम्यर्थे षठी । तदाह कतुकर्मणोरीषदादिषु चोपपदेष्विति । अत्र कर्तृकर्मणोरन्यतरस्मिन् ईषद्दुः नामन्यतमे च इत्युभयस्मिन् समुच्चिते उपपदे इत्यर्थो विवक्षितः । न तु प्रत्येकमुपपद त्वम् , व्याख्यानात् । भाष्य तथैवोदाहरणाच्च । नेष्यत इति । षष्ठीनिषेधात्कर्तरि तृतीया । कृच्छेत्यादि किम् । ईषत्कार्यम् , स्वयं कार्यमित्यर्थः । खलिति । लका : स्वरार्थः । खित्करणं तूत्तरत्र मुमर्थम् । निमिमीति। 'मीनातिमिनोतिर्द डांल्यपि च' 'विभाषा लीयतेः' इति प्राप्तं निषिध्यते । नियम इत्यादि । एरच् । उपसर्गाखल्योः । 'लभश्च' इत्यनेनैव सिद्धे नियमार्थमिदमित्याह । उपसर्गादेवेति । तदा स्वती इति । 'सुः पूजायाम्', 'अतिरति. क्रमणे च' इति तयोः कर्मप्रवचनीयत्वम् । कर्तृकर्मणोः । चकारः संनियोगार्थः । यदा कर्तृकर्मणोरीपदादीनां च युगपत्प्रयोगम्तदैव प्रत्ययो यथा स्यात् । न च कर्तृकमणोः प्रत्ययार्थट मेवास्तु न तूपपदत्वमिति वाच्यम् । ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयर्थ्यात्ति: मुमर्थ हि तत् । मुम् चानव्ययस्य विधीयते तस्मात्कर्तृकमणो. रिति उपपदत्वमेव । तदेतदाह । ईषदादिषु चेति। कर्तृकर्मणी द्वे भूकृनौ च द्वौ तयोर्यथासंख्य प्राप्तम् । स्वीकृतं च काशिकाकृता न्यासकारहरदत्तादिभिश्च,