SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८] सिद्धान्तकौमुदी। [उत्तरकृदन्तदयोऽनेनेत्यानायः। जालम् इति किम् । प्रानयः। ३३०४ खनो घ च । (३-३-१२५ ) चाद्धञ् । पाखनः अाखानः । घिस्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भजेः भगः पदम् । करणे घः। खल सञ्चये । अधिकरणे घः । खल इत्यादि । 'खनेडेडरेकेकबका वाच्याः' (वा २२३८) पाख:पाखरः-पाखनिकः-पाखनिकबकः । एते खनित्रवचनाः । ३३०५ ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् । (३-३-१२६) करणाधिकरणयोरिति निवृ. त्तम् । एषु दुःखसुखार्थेषूपपदेषु खल्स्यात् । 'तयोरेव-' (सू २८३३ ) इति भावे कर्मणि च । कृच्छ्रे-दुष्करः कटो भवता । प्रकृच्छ्रे-भवता ईषत्करः । सुकरः । 'निमिमीलियां खलचोरास्वं नेति वाच्यम्' (वा ३४८७ ) ईषन्निमयः। खनो घ च । घ इति लुप्तप्रथमाकम् । खनो घञ् स्यात् घश्चे यर्थः । नन्वत्र घित्करणं व्यर्थम् , चजोरभावन कुत्वस्याप्रसक्तरित्याशक्य आह घित्करणमिति । भजेभंग इति । भज्यते इति कर्मणि घः । पदमिति । पद्यते गम्यतेऽनेनेति विग्रहः । खनेरिति । ड, डर, इक, इकबक, एषां चतुर्णा द्वन्द्वः। आख इति । डे रूपम् । आखर इति । डरे रूपम् । उभयत्रापि डित्त्वसामर्थ्याहिलोपः । इके उदाहरति आखनिक इति । इकबके उदाहरति आखनिकबक इति । ईषदुःसुषु । निवृत्तमिति । व्याख्यानादिति भावः। तर्हि 'कर्तरि कृत्' इति कर्तरि स्यादित्यत आह तयोरेवेति । इह दुरिति कृच्छ्रार्थ एवान्वेति अकृच्छ्रार्थे तु ईषदिति सु इति चान्वेति । योग्यताबलात् । तदेतदाह कृच्छे दुष्कर इत्यादिना। भवतेति । 'न लोक' इति षष्ठीनिषेधात कर्तरि तृतीया । कृच्छेत्यादि किम् । ईषत्कार्यम् । अल्पामेत्यर्थः । निमीति । निपूर्वो मिञ् , मीनातिः, लीङ्, एषामित्यर्थः । 'मीनातिमिनोतिदीयं ल्यपि च' 'विभाषा लीयतेः' इति प्राप्तमात्त्वं खलचोनिषिध्यते । खलि उदाहरति ईषन्निमय इत्यादि । 'एरच्' इत्यचि उदाहरति कसन्तेभ्यो णः' इति णप्रत्यये जालशब्दः सिद्धः । तेन जलशब्दोऽत्र निपात्यत इति न भ्रमितव्यम् । खनो । धिकरणमिति । आखन इत्यादी 'चजो:-' इति कुत्वस्य प्रसक्त्यभावादिति भावः । भगः। पदमिति । ननु पदमित्यत्र घस्य कि प्रयोजनमिति चेदत्राहुः-'करणाधिकरणयोः' 'पुंसि संज्ञायाम्-' इति यदि घः स्यात्तदा पदमिति नपुंसकं न स्यात् , अनेन चेत् घो भवति तदा त्विष्टसिद्धिरिति । एते इति । आखनादयः षडित्यर्थः । ईषदःसुषु । इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते, दुरिति कृच्छार्थे । इतरौ त्वकृच्छार्थे । तदेतदर्शयति । कृच्छे। दुष्कर इत्यादिना। भवतेति । 'न लोका-' इति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy