SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त• कर्तुरिति किम् । गुरो: स्नापनं सुखम्, नेह गुरुः कर्ता, किंतु कर्म । ( कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । धग्निकुण्डस्य सेवनं सुखम् । प्रत्युदाहरणेवसमासः ) । ३२६२ वा यौ। ( २-४-५७) अजेर्वी वा स्याद्यौ । प्रवय'यम् । प्राजनम् । ३२६३ करणाधिकरणयोश्च । ( ३-३-११७ ) ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरिस्यधिकारः । ३२६४ अन्तरदेशे । ( ८ -४ - २४ ) अन्तःशब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु श्रन्तर्हननो देशः । श्रत्पूर्वस्यत्येव । अन्तर्झन्ति । तपरः किम् । अन्तरघानि ३२६५ अयनं च (८-४-२५) अयनस्य णोऽन्तःशब्दात्परस्य । अन्तरयणम् | प्रदेश इत्येव । श्रन्तरयनो देशः । ३२६६ पुंसि संज्ञायां घः प्रायेण ( ३-३-११८) ३२६७ छादेर्घेऽद्वयपसर्गस्य ( ६-४-६६ ) द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । प्रच्छदः । श्रद्वीति किम् । समुपच्छादः । श्राकर्वन्त्यस्मिन्नाकरः । ३२६८ गोचसंस्पर्शपूर्वक पानादेर्वा सुखम् यथा पयःपानं सुखमित्यादौ तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः । तूलिकाया उत्थानं सुखमिति । अत्र न कर्मोपपदमिति भावः । अग्निकुण्डस्येति । शीतकाल इति शेषः । श्रत्राग्निकुण्डेन संस्पर्शो नास्ति, दाहप्रसङ्गादिति भावः । ननु तूलिकाया उत्थानम् इत्यादिप्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह । प्रत्युदाहरणेष्विति । श्रसमास इति । नित्यस्योपपदसमासस्याभाव इत्यर्थः । करणाधिकरणयोश्च । अर्थनिर्देशोऽयं, न तूपपदं, व्याख्यानात् । श्रपौ परत्वादयं बाधते । तदुक्तम् 'अजब्भ्यां स्त्री खलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति । इध्मप्रव्रश्चन इति । प्रवृश्च्यतेऽनेनेत्यर्थे ल्युट् । इध्मस्य प्रव्रश्चन इति विग्रहः । गोदोहनीति । दुयतेऽस्यामित्यर्थे ल्युट् । गोर्दोहनीति विग्रहः । खलः प्रागिति । व्याख्यानादिति भावः । पुंसि । करणाधिकरणयोरित्येव । पूर्वसूत्रापवादः । छादेर्घे । 'श्रद्वयपसर्गस्य' इति छेदः । ह्रस्वः स्यादिति । 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः । णिच्त्रकृतिभूतस्य छाद उपधाया इति शेषः । 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेः । एतेन णेरेव ह्रस्वः तत्सामर्थ्यात्तस्य 1 पूर्वेणेति । ल्युट् चेत्यनेनेत्यर्थः । नेहेति । स्नानकर्तृत्वेऽपि स्नापने न गुरुः कर्ता किंतु शिष्य इत्यर्थः । शरीरग्रहणं किम् । पुत्रस्य परिष्वजने सुखम् । मानसी प्रीतिरत्र । करणाधिकरणयोः । येन नाप्राप्तिन्यायेन घञोऽपवादोयमजपौ स्त्रीप्रत्ययांश्च परत्वाद् बाधते । उक्तं हि - 'अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति । इध्मेति । इमानि प्रदृश्यन्ते येन, गौर्दुह्यते यस्यामिति विग्रहः । श्राकुर्वन्तीति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy