________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३४५ (सू २८४) भावेऽकर्तरि च कारके संज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । 'नपुंसके भावे वः' (सू ३०१०)। ३२६० ल्युट् च। (३-३-११५) हसितम् हसनम् । योगविभाग उत्तरार्थः । ३२६१ कर्मणि च येन संस्पर्शाकर्तुः शरीरसुखम् । (३-३-११६) येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुस्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थ वचनम् । पयःपानं सुखम् । (श्रोदनभोजनं सुखम् । नन्वत्र पानादेव सुखम् । चन्दनानुलेपनं सुखमितिवत् । सत्यम् । यत्र संस्पर्श विना सुखाभावस्तदर्थकत्वात् । यत्र साक्षात्परम्परया वा सुखं तत्रेति यावत् )। करणे अधिकरणे भाव च ल्युड् विहितः । ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः । स्नानीयं चूर्णम् । करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति । राति। कर्मणि ल्युडिति भावः । नपुंसके भाव क्तः । इदं सूत्रं 'निष्ठा' इति सूत्रप्रस्तावे प्रागेव प्रसङ्गाद् व्याख्यातं मुले । इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् । ल्यु च। चात् क्तः । नपुंसके भावे इत्येव । ननु 'नपुंसके भावे क्ल्युटौ' इत्येव सिद्ध योगविभागो व्यर्थ इत्यत आह । योगेति । कर्मणि च थेनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः । कर्मणि च येन । संस्पर्शशब्दः कृदन्तः, कृद्योगे कर्तुरिति कर्मणि षष्ठी। येनेति कर्तरि तृतीया। 'उभयप्राप्तौ कर्मणि' इति नियमात् । येन कर्मणेति । कर्तुःशरीरस्येति । शरीरावच्छिन्नस्येत्यर्थः । अर्धर्चादित्वाच्छरीरशब्दः पुंलिझोऽपि । तेन कर्तृण इत्येव भाव्यमिति निरस्तम् । ल्युट् स्यादिति । भावे नपुंसके इति शेषः । पूर्वेणेति । 'ल्युट च' इति पूर्वसूत्रेणेत्यर्थः। नित्येति । उपपदसमासार्थमित्यर्थः । तस्य नित्यत्वात् । पयःपानं सुखमिति। पयसा स्पृश्यमानशरीरा. वच्छिन्नस्य सुखजनकमित्यर्थः । उदाहरणान्तरमाह । ओदनभोजनं सुखमिति । शङ्कते । अत्र पानादिति । पानादेव सुखम्, न तु संस्पर्शनेनेत्यर्थः । भोजनादित्यपि द्रष्टव्यम् । तत्र दृष्टान्तमाह । चन्दनानुलेपनं सुखमितिवदिति । तथा च पयसा ओदनेन च स्वरूपतस्तावद्देवदत्तसुखाभावात् कथमिदमुदाहरणमिति भावः । समाधत्ते । सत्यमिति । यत्र संस्पर्शमिति । यत्र विषये संस्पर्श विना स्वरूपतैव सुखं नोत्पद्यते तादृशविषयोपलक्षणं संस्पर्शग्रहणमित्यर्थः । फलितमाह । यत्रेति । स्पर्शनेन यत्र सुखं यथा चन्दनानुलेपनं सुखमिति, यत्र द्वितीयापि दृश्यते 'भ्रान्तं देशमनेकदुर्गविषमम्' इति दिक् । कर्मणि च । कर्तुरिति कर्मणि षष्ठी 'उभयप्राप्ती कर्मणि' इति नियमायेनेति तृतीया तदाह येन स्पृश्यमानस्य कर्तुरिति । ल्युट् स्यादिति । नपुंसके भावे इति बोध्यम् । अतएवाह