SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४४ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त स्यात् । भवत श्रासिका । शायिका । अग्रगामिका । भवानिनुभत्तिकामर्हति । ऋणे-इत्नुभत्तिकां मे धारयसि । उत्पत्तौ – इक्षुभक्षिका उदपादि । ३२८६ आक्रोशे नञ्यनिः । ( ३-३ - ११२ ) विभाषेति निवृत्तम् । नन्युपपदेऽनिः स्यादाक्रोशे । श्रजीवनिस्ते शठ भूयात् । अप्रयाणि: । ' कृत्यल्युटो बहुलम् ' व्रश्चेति षः । पर्यायाह । पर्यायशब्दस्य विवरणम् । परिपाटीति । तस्यापि विवरणम् । क्रम इति । परिपूर्वापः क्रमर्था देणजादिभ्य इति स्त्रियां भावे इण् । 'कृदिकारादक्किनः' इति ङीष् । श्रर्हणमर्ह इति । भावे घञति भावः । द्योत्येविति । भाव एवार्थे प्रत्यय इति भावः । क्रमे उदाहरति । भवत श्रासिकेति । श्रादौ श्रासनं ततः शयनं ततोऽग्रगमनमित्यर्थः ' अ उदाहरति । भवानिति । ‘ऋणे' इत्युदाहरणसूचनम् । इक्षुभक्षणमृणत्वेन धारयसीत्यर्थः । 'उत्पत्तौ ' इत्युदाहरणसूचनम् । उदपादीति । उत्पन्नेत्यर्थः । उत्पूर्वात्पदेः कर्तरि लुङि 'चिण् ते पदः' इति चिण् । श्राक्रोशे नञ्यनिः । निवृत्तमिति । व्याख्यानादिति भावः । जीवनिरिति । अजीवनमित्यर्थः । अप्रयाणिरिति । श्रप्रयाणमित्यर्थः । क्तिन् तु न भवति । अनिना बाधात् । स्त्रियां वाऽसरूपविधेरभावात् । विभाषानुवृत्तौ क्वचिक्किन् स्यादिति भावः । इति स्त्र्यधिकारः । कृत्यल्युटो बहुलम् । कृत्यसंज्ञकाः प्रत्ययाः 'तयोरेव कृत्यक्तखलर्याः' इति भावे कर्मणि च विहिताः । पट गतौ परिपूर्वः । 'इणजादिभ्यः' इतीण | 'हृदिकारात् -' इति ङीष् । श्राक्रोशे । आक्रोशः शापः । नपुंसके भावे कः । ननु ' तयोरेव कृत्यक्कृखलार्थाः' इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति किमनेन पुनर्विधानेनेति चेत्, अत्राहुः - भूते इत्यधिकृत्य 'निष्ठा' इति सूत्रेण विहितस्य क्लस्य भावोऽर्थः ' तयोरेव' - इति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्लो विधीयते । एवं च स्वविषये परत्वाद् घञजयां बांधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति । किंच इह भावे चाकर्मकेभ्य इत्यस्यासन्निधानात्सकर्मकेभ्योऽप्ययं भवति घञादिवत् । 'गतं तिरिश्वीनमनूरुसारथेः' इत्यादिदर्शनात् । तथा च नास्त्येव शङ्केति । नन्वेवं कुद्योगे कर्मणि द्वितीया स्यात् कृद्योगलक्षण षष्ठया 'न लोका-' इति निषेधात् । एवं च घटं कृतं वृक्षं भिन्नमित्यादि प्रसज्येत । अनूरुसारथेरित्यत्र तु कर्तरि तृतीया नापद्यते, कारकषष्ट्या निषेधेऽपि शेषत्वविवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् । नपुंसके भावे क्लस्य योगे षष्ठ्या लुक उपसंख्यातत्वात्कर्मणि द्वितीयाया अभावात् । शेषत्वविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु । तथा च घटं कृतमित्यादि तु न प्रसज्यत एव । कचित्तु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy