________________
'
प्रकरणम् ६८ ]
बालमनोरमा-तत्वबोधिनीसहिता ।
[ ३४३
पुष्पप्रवाहिका । अभ्यूषखादिका । अभ्यूषः पूरिका अपूपविशेषः ) । ३२८७ विभाषाख्यान परिप्रश्नयोरिञ्च । ( ३-३ - ११० ) परिप्रक्षे श्राख्याने च गम्ये इञ् स्यात् । चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्त मन्येऽपि । कां स्वं कार्रि- कारिकांक्रियां - कृत्यां - कृतिं वा श्रकार्षीः । सर्वा कार्रि- कारिकां-क्रियां- कृत्यां कृर्ति वा अकार्षम् । एवं गणि गणिकां - गणनाम् । पाचि - पाचिकां-पच-पक्तिम् । इज्याम् - इष्टिम् । ३३८८ पर्यायार्हणोत्पत्तिषु वुच् । ( ३-३ - १११ ) पर्यायः परिपाटी क्रमः । श्रर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु यवुज्वा संज्ञायाम् । वरति । वरणः वृक्षविशेषः । वारणान्यहोमार्थानीत्यादौ याज्ञिकानां प्रसिद्धः । अभ्यूष इत्यस्य विवरणम् । पूरिकेति । तस्यापि विवरगम् । अपूपविशेष इति । ' समितावेसने जीरहिगुमारीचयोजिते । घृताक्ने जलसंयुक्ते पीठस्योपरि वेल्लिते । घृतेन वाथ तैलेन भर्जिता पूरिका मता ।' इति भोजन कौतूहले तल्लक्षणात् । विभाषाख्यान । स्त्रियामित्येव । पूर्वं परिप्रश्नः पश्चादुक्तकथनमाख्यानम् । श्रल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः । तदाह । परिप्रश्न इति । वासरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत श्राह । विभापोक्तेरिति । स्त्रियां वाऽसरूपविधेरप्रवृत्त्या विभाषाग्रहणाभावे इज्एवुलावेव स्याताम् । न तु प्रत्ययान्तरमित्यर्थः । परिप्रश्ने उदाहरति । कां त्वमिति । कां त्वं कारिमकार्षीरित्यन्वयः । इञि रूपम् । एवं कारिकामित्यादावपि कां त्वमित्यस्य कार्षीरित्यस्य चान्वयो बोध्यः । कारिकामिति । वुलि रूपम् । क्रियामित्यत्र 'कृञः श च' इति शः । कृत्यामित्यत्र 'कृञः श च' इति चकारात् क्यपि तुक् । कृतिमित्यत्र क्विन् ‘कृञः श च' इति चकारादित्युक्तम् । श्रख्याने उदाहरति । सर्वां कारिमित्यादि । अत्रापि सर्वां कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वयः । एवं गाणमिति । अत्रापि कामकार्षीः सर्वामकार्षमिति प्रश्नप्रतिवचनानि योज्यानि । गणधातोरदन्तात् चुरादिणिजन्तादिनादि । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । गणनामिति । 'ण्यासश्रन्थः ' इति युच् । श्रत्र क्लिन् तु न, युचा बाधात् । पचामित्यत्र षिद्भिदादिभ्यः' इति वित्त्वादङ् । इज्यामित्यत्र 'व्रजयजोर्भावे' इति क्यपू । 'वचिस्वपि' इति संप्रसारणम् । इष्टिरित्यत्र यजेः क्लिन्, संज्ञायाम् । श्रधिकरणे वुलर्थोऽयमारम्भः । उद्दालकः श्लेष्मातकः तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा । भजनं भञ्जिका । भावे वुल् । उद्दालकपुष्पाणां भञ्जिकेत्यन्ये ॥ सूत्रं श्राख्यानशब्दस्याल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकत्यार्थ प्राप्त कममनुसृत्य व्याचष्टे परिप्रश्ने आख्याने चेति । परिपाटीति ।