SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त र्थाच्छु:' ( वा २२२ ) । बहुलवचनादकारलोपः । मत्वर्थीयः । ' इणजादिभ्यः' ( वा २२३० ) । आजि: । चतिः । 'इम्त्रपादिभ्यः' ( वा २२३१ ) । वापिः । वासिः । स्वरे भेदः । इक्कृष्यादिभ्यः' ( वा २२३२ ) कृषिः । गिरि: । ३२८६ संज्ञायाम् । ( ३-३-१०६ ) अत्र धातोर्खुल् । उद्दालकपुष्पभञ्जिकां । ( वरकारप्रत्ययोsपि । अत्र स्त्रियामित्यस्य अनुवृत्तेरनभ्युपगमेन स्त्रियामिति निषेधाभावात् । मत्वर्थाच्छ इति । मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः । ननु मत्वर्थीय इत्यत्र कथं 'यस्येति च' इत्यकारलोपः, अतद्धितपरत्वाद् अभत्वाच्चेत्यत आह बहुलवचनादकारलोप इति । मत्वर्थीय इति । मतोरर्थो यस्य प्रत्य1 यस्य स मत्वर्थः । स एव मत्वर्थीयः । ' तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न । 'शैषिकान्मतुबर्थीयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्यः । इणजादिभ्य इति । वाच्य इति शेषः । स्त्रियामित्येव । ( श्राजिरित्यत्र अजेर्वी भावमाशङ्क्य ह । बहुलमिति ) । इञ्वपादिभ्य इति । वाच्य इति शेषः । स्त्रियामित्येव । ननु इणोऽनुवृत्यैव सिद्धे इञ्प्रहणमनर्थकम् इत्यत श्राह । स्वरे भेद इति । 'नित्यादिर्नित्यम्' इति स्वरविशेष इग्विधेः फलमित्यर्थः । इक्कृष्यादिभ्य इति । वाच्य इति शेषः । कृषिरिति । कित्त्वान्न लघूपधगुणः । गिरिरिति । गृधातोरिक् किश्वान्न गुणः 'ऋत इद्धातो:' इति इत्त्वे रपरत्वम् । तुवर्णादुच्चार्यमाणादिति । तथा हि सत्यंकार इत्यादावेव स्यान्न तु ककार इत्यादौ । अत्र हि संघातस्योच्चारणात् । अनुकार्यं त्विह वर्णमात्रम् । अकारस्योच्चारणार्थत्वात् । कथं तर्हि समुच्चयार्थश्चकारः । एवकारोऽन्यनिवृत्त्यर्थ इत्यादिप्रयोगा इति चेदत्राहु:-- क्वचित्सङ्घातादपि भवति 'उच्चैस्तरां वा वषट्कारः' इति सूत्रनिर्देशात् । सर्वे चकाराराः प्रत्याख्यायन्ते भाष्यप्रयोगाद्बहुलवचनाच्चेति । इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वधिकार स्थस्वात्कृत्संज्ञा । तेन कृदन्तत्वाप्रातिपदिकत्वम् । प्रयोजनाभावान्न ककारस्येत्संज्ञा । श्रार्धधातुकत्वाभावादि डागमो न । 'अस्य च्वौ' इत्यादौ तु कारप्रत्ययाभावो बाहुलकादेव । रादिफ इति । वासरूपविधिना कारोऽपि । तेन " रकारादीनि नामानि शृरावतो मम पार्वति' इत्यादिप्रयोगः साधुरेव । कारलोप इति । श्रतद्धितपरत्वादभत्वाच्च 'यस्य -' इति लोपस्याप्राप्तिरिति भावः । कृदन्तत्वाप्रातिपदिकत्वमिह पूर्ववद्बोध्यम् । 'तसौ मत्वर्थे' इत्यत्र बाहुलकाच्छो न । 'शैषिकान्मसुबर्थीयात्' इत्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः । अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्य गहादित्वाच्छ्रप्रत्यये तद्धितान्तेमेवेत्याहुः । इणजा । धात्वर्थनिर्देशे प्राप्तस्य वुलोऽपवादोऽयम् । एवमप्रेऽपि । श्रजिरिति । बाहुलकादजेर्वीभावो न । 1 .
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy