SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४१ 1 'धात्वर्थनिर्देशे' खुल्वक्तव्यः' ( वा २२२५ ) । श्रासिका । शायिका | 'इक्शितपौ धातुनिर्देशे' ( वा २२२६ ) । पचः पचतिः । ' वर्णाटकार ' ( २२२७ ) । निर्देश इत्येव । श्रकारः । ककारः । 'रादिफः' ( वा २२२८ ) । रेफः | 'मत्वशिरोऽर्त्तिरिति । शिरःपीडेत्यर्थः । अः क्तिन् । 'तितुत्र' इति नेट् । धात्वर्थनिर्देश इति । धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल् बहुलमित्यर्थः स्त्रियामित्येव । आसिका शायिकेति । आसनं शयनमित्यर्थः । इक् तिपाविति । धातुखरूपे निर्देष्टव्ये इक्शितपौ वक्तव्यावित्यर्थः । धातुस्वरूपमेव वाच्यमिति फलितम् । पचिः पचतिरिति । पचधातुरित्यर्थः । शित्त्वेन सार्वधातुकत्वाच्छप् । कर्तृवाचकत्वेऽपि 'उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः । शित्त्वसामर्थ्यादिति तु प्राञ्चः । तन्न, पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या श्रात्यनिवृत्त्या च शित्त्वस्य चरितार्थत्वादित्यलम् । अत्र स्त्रियामिति न संबध्यते । व्याख्यानात् । वर्णात्कार इति । वार्तिकम् । निर्देश इत्येवेति । अ, इ, उ, इत्यादिवर्णनिर्देशे कर्तव्ये वर्णानुकरणाद् अ, इ, उ, इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थः । अकार इति । अवर्ण इत्यर्थः । इह कारप्रत्ययस्य धातोर - 1 विद्दितत्वेऽपि अधिकारबलात् कृत्संज्ञा । अतः प्रातिपदिकत्वात् सुबुत्पत्तिः । ककारस्य नेत्संज्ञा, प्रयोजनाभावात् । श्रनार्धधातुकतया आकार इत्यादौ यतो लोपाप्रसक्तेः । अनार्धधातुकत्वादेव नेट् । बहुलग्रहणानुत्रृत्तेः क्वचिन्न । 'अस्य च्वौ' इत्यादौ । ककार इति । कवर्ण इत्यर्थः । प्रकृतावकार उच्चारणार्थः । ' न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति 'उच्चैरुदात्तः' इति सूत्रभाष्यात् । क्वचित्संघातादपि कप्रत्ययः, यथा एवकार इत्यादौ वषट्कार इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्त इति भाष्याच्च । रादिफ इति । वाच्य इति शेषः । वाऽसरूपविधिना शिरोर्तिरिति । शिरापीडा । श्रर्द हिंसायाम् । 'तितुत्र-' इति नेट् । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । आसिका । शायिकेति । आसनं शयनमित्यर्थः । इश्तिपौ । धातोर्निर्देशो ऽनुकरणम् । बहुलमित्यनुवृत्तेः क्वचिन्न । 'गुप्तिज्किद्भ्यः सन् ' 'भुवो वुग्लुलिटो:' । पचतिरिति । ' उपसर्गात्सुनोतिसुवतिस्यति - ' ' ध्यायतेः संप्रसारणं च' इत्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शवादयः । एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्, 'विभाषा लीयतेः' इति यथा । तत्र हि लीलीङोर्यका निर्देशो न तु श्यनेत्युक्तम् । यत्तु प्राचा शितपः शित्करणसामर्थ्याच्छबादय इत्युक्तम् । तन्न । पिबतिग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या श्रात्वनिरृत्त्या च शित्त्वस्य चरितार्थत्वात् । वर्णादिति । वर्णानुकरणादित्यर्थः । न , > , -
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy