________________
३४० ] सिद्धान्तकौमुदी। [उत्तरकृदन्त'श्रदन्तरोरुपसर्गवद्वृत्तिः' (वा ११३१-१९४७)। श्रद्धा । अन्तर्धा । 'उप. सगै घोः किः' (सू ३२७.) इत्यनेन किः । अन्तधिः । ३२८४ ण्यासश्रन्थो युच (३-३-१०७) अकारस्यापवादः । कारणा । हारणा | पासना । श्रन्थना । 'घटिवन्दिविदिभ्यश्चेति वाच्यम्' ( वा २२२२) घटना। वन्दना । वेदना । 'इरनिन्छार्थस्य' (वा २२२३) अन्वेषणा। 'परेवा' ( वा २२२४ ) । पर्ये षणा परीष्टिः । ३२८५ रोगाख्यायां एल्बहुलम् । (३-३-१०८) प्रच्छ• दिका वमिः । प्रवाहिका ग्रहणी । विर्चिका पामा। कचिन्न । अर्द, शिरोऽतिः अन्तरिति च अव्ययपूर्वाद्धाशः कथमङ्, तयोरुपसर्गत्वाभावादित्यत आह । श्रदन्तरोरुपसर्गवद् वृत्तिरिति । 'श्रच्छब्दस्य अविधौ उपसर्गत्वं वाच्यम्' इति 'अन्तश्शब्दस्याङ्किविधिणत्वेषूप सर्गवं वाच्यम्' इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्व. कादादन्ताद्धातोरङ्प्रत्ययात्मककृत्प्रत्ययरूपा वृत्तिरित्यर्थः । वृत्तिरिति णत्वस्याप्युपलचणम् । तेन अन्तर्धा अन्तधिः अन्तर्णयतीत्यादौति दिक । ण्यास। णि, पास, श्रन्थ्, एभ्यः स्त्रियां भावादिषु युच् स्यादित्यर्थः । अकारस्येति । 'अ प्रत्ययात्' इति विहितस्येत्यर्थः । घट्टिवन्दीति । अण्यन्तत्वााचो विधिः। वेदनेति । लाभार्थाद्विर्यच । व्याख्यानात् । 'विद ज्ञाने' इत्यस्य तु वित्तिः । 'विद वेदनाज्ञाननिवासषु' इति चुरादेस्तु ‘ण्यासश्रन्थ' इति युचि वेदनेत्यपि । इषेरनिच्छार्थस्येति । युज्वक्तव्य इति शेषः । अन्वेषणति । मार्गणे इत्यर्थः । इच्छायां तु अन्विष्टिः । परेवेति । परिपूर्वकादियुज्वेत्यर्थः । परीष्टिरिति । 'वश्व' इति षः। रोगाख्यायाम् । स्त्रियामित्येव । प्रच्छर्दिकत्यस्य विवरणम् । वमिरिति । वमनमित्यर्थः । प्रवाहिकेत्यस्य विवरणम् । ग्रहणीति । अतिसारविशेषः। विचचिकेत्यस्य विवरणम् । पामेति। क्वचिन्नेति । रावुलिति शेषः । बहुलग्रहणादिति भावः । अति । अर्तिशब्दस्य 'अर्द हिंसायाम्' इति प्रकृतिदर्शनमिदम् । उपवाद इति । ‘ण्यासश्रन्थ-' इति वक्ष्यमाणस्येत्यर्थः । आसनेति । प्रास्यतेऽस्यामिति विग्रहः । 'ऋहलोर्यत्' इति ण्यत्प्रत्यये त्वास्या । न च स्त्रीप्रत्यये वासरूपविधिर्नेति शक्यम् । अपवादस्य युचः स्त्रीप्रकरणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात् । घट्टिवन्दि । विदिलाभार्थो गृह्यते । ज्ञानार्थस्य तु संवित्तिः । इरिति । अनिच्छार्थस्य युच् । इच्छार्थस्य त्विषेरिच्छेत्येव । रोगाख्या । धातोर्बहुलं एवुल स्यात्प्रत्ययान्तं चेद्रोगस्य संज्ञा । क्तिनादीनामपवादः । प्रच्छर्दिकेति । छर्द वमने । प्रवाहिकेति । प्रवाहयति मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका ग्रहणी । विचचिकेति । चर्च अध्ययने । प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः । 'पाम पामा विचिका' इत्यमरः ।