________________
३३८ । . सिद्धान्तकौमुदी [ उत्तरकृदन्तपुत्रकाम्या । ३२८० गुरोश्व हलः । ( ३-३-१०३) गुरुमतो हलन्तास्त्रियामकारः स्यात् । ईहा । उहा। गुरोः किम् । भकिः। हनः किम् । नीतिः। 'निष्ठायां सैट इति वनग्यम्' (वा २२०८ )। नेह। प्राप्तिः। 'तितुत्र-' (सू ३१६३) इति नेट् । दीप्तिः । 'तितुत्रेष्वग्रहादीनामिति वाच्यम्' (४३६३) निगृहीतिः । निपठितिः । ३२८१ षिद्भिदादिभ्योऽङ् । (३-३-१०४) पिनयो भिदादिभ्यश्च स्त्रियामङ्। जष्-जरा । पूष्-त्रपा । भिदा-विदारण एवायम् । भित्तिरन्या। ( 'छिदा द्वैधीकरणे'। अन्यत्र छित्तिः छिद्रम् । गुहा कारके इत्येव । गुरोश्च हलः । धातोरित्यनुवृत्तं हला विशेष्यते । तदन्तविधिः । हलन्तधातोर्गुरुत्वासंभवाद् गुरुमान् लक्ष्यते। तदाह गुरुमत इति । भावे अकर्तरि च कारक इत्येवं । निष्ठायामिति । निष्ठायां परतो यः सेट , तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः । प्राप्तिरिति । आब्धातोनिष्ठायां सेटत्वाभावाद नायमकारप्रत्ययः, किंतु क्विन्नेवेति भावः । दीप्तिरित्यत्र इटमाशङ्कय आह तितति । तितत्रेष्विति । "तितुत्रतथसिसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः । निगृहीतिरिति । इटि 'ग्रहोऽलिटि' इति दीर्घः । 'अहिज्या' इति संप्रसारणम् । निगृहीतिः उपस्निहितिः निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिताः । षिद्भिदादिभ्योऽङ् । भावे अकर्तरि च कारके इत्येव । जरेति । बित्वलक्षणं गुणनिषेधं बाधित्वा 'दृशोऽङि' इति गुणः । विदारण इति । वार्तिकम् । विदारणं ऊर्ध्वविदलनम् । तस्मिन्नेवार्थे भिदेत्यङन्तमित्यर्थः । छिदा द्वैधीकरण इति । इदमपि वार्तिकम् । यथाकथंचित्तिर्यगतिर्यग्वा द्वैधीभावे एव छिदेत्यान्तमित्यर्थः । छित्तिरित्यस्य विवरणम्-छित्तिश्छिद्रमिति । भिदिर् विदारणे, छिदिर् द्वैधीकरणे, परतः सार्वधातुके यक्। 'जाप्रोऽविचिएणल्-' इति गुणः । गुरोश्च । धातोरित्यनुवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते । न चायं गुरुरिति संभवति । अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते तदाह गुरुमत इति । ननु विपरीतमस्तु गुर्वन्ताद्धल इति तादृशस्यापि धातुईक्रीअित्यादेः सत्त्वादिति चेन्मैवम् । 'चेष्टायामनध्वनि' 'आशंसायां भूतवच्च' इति निर्देशेन विपरीनशङ्काया अप्रवृत्तेः । षिद्भिदा । कथं तर्हि 'मुखाजगन्धलब्धेः' इति माघः । 'प्रेक्षोपलब्धिः' इत्यमरश्च । षित्त्वादङि लभेत्येव हथुचितम् । सत्यम् । अनर्थकास्तु प्रतिवर्णमनुपलब्धेरिति भाष्यप्रयोगाद्वाहुलकाद्वा क्विन्नपि बोध्यः । विस्तरस्त्विह मनोरमायां बोध्यः । भिदेति । एवमादयोऽदन्ताः समुदाया एव गणे पठ्यन्ते तत्र ये प्रकृतिभागा भिदछिद इत्यादयस्ते