________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३७ (३-३-१०१ ) इषेर्भावे शो यगभावश्च निपात्यते। इच्छा । 'परिचर्यापरिस.
मृगयाटाट्यानामुपसंख्यानम्' (वा २२१५)। शो यक्व निपात्यते । परि . चर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । मृग अन्वेषणे चुरादाव. दन्तः । अतो लोपाभावोऽपि । शे यकि णिलोपः। मृगया। अटतेः शे यकि व्यशब्दस्य द्विस्वम् । पूर्वभागे यकारनिवृत्तिीर्घश्च । अटाटया। 'जागर्तेरकारो वा' ( २२१६ ) पक्षे शः । जागरा जागर्या । ३२७६ अ प्रत्ययात् । (३-३-१०२) प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । चाक्लिनिति । क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः । क्रियेति । कृषः शः '
रिशयग्लिक्षु' इति रिङ् । शित्त्वेन सार्वधातुकतया ङित्त्वान गुणः । इयङिति भावः । इच्छा । भावे श इति । न त्वकर्तरि कारके चेत्यर्थः, निपातनसामर्थ्यादिति भावः । यगभावश्चेति । अन्यथा शित्त्वेन सार्वधातुकत्वाद् यक् स्यादिति भावः । परिचयति । परिपूर्वाच्चरेः भावे शः यक् च । परिसयेति । परिपूर्वात्सृधातोः शः, यक् च। अत्र शप्रत्ययस्य शित्त्वेन सार्वधातु. कतया ङित्त्वाद् गुणनिषेधमाशङ्कय आह अत्र गुणोऽपीति । परिसय शब्दे गुणोऽपि निपातित इत्यर्थः । द्वित्वमिति । निपात्यते इति शेषः । यकारनिवृत्तिरिति । निपात्यत इति शेषः। हलादिशेषस्तु नात्र प्रवर्तते । तस्य षाष्ठद्वित्वविषयत्वादित्याहुः । यङन्तात्तु 'अप्रत्ययात्' इति वक्ष्यमाणः यकार प्रत्ययः । तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् । जागर्तेरकारो वेति । भावे वक्तव्य इति शेषः । अकारप्रत्यये उदाहरति जागरेति । आर्धधातुकलक्षणो गुणः । शप्रत्यये उदाह्रति जागर्येति । शित्त्वेन सार्वधातुकत्वाद् यक् 'जागोऽविचिएणल. उित्सु' इति च गुणः । अप्रत्ययात् । अ इति लुप्तप्रथमाकम् । भावे अकर्तरि च देव मतिभृतीत्यादीनां साधुत्वमिति दुर्घटाशुकिः प्रत्युक्ला । क्रियेति। यदा भावकर्मणोः शः तदा 'सार्वधातुके यक्' । 'रिङ् शयग्लिक्षु' इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् । इच्छा । इषे.
र्भाव इति । न त्वकर्तरि कारकेऽपीत्यर्थः । अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम् । यकारनिवृत्तिरिति । हलादिःशेषस्तु नास्ति । षाष्ठद्वित्वे धातु द्वित्वे वाभ्याससंज्ञास्वीकारात् । इह च तदुभयाभावादिति भावः । अटाटयेति । यदा तु अटतेर्यजन्तादप्रत्ययादित्यकारस्तदाऽलोपे 'यस्य हलः' इति यलोपेऽटाटेति रूपं बोध्यम्। द्वित्वे हलादिःशेषे प्रति 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घप्रवृत्तेः । जागर्तेरिति । शे