________________
सिद्धान्तकौमुदी।
[उत्तरकृदन्त
३३६ ] व्रज्या । इज्या । ३२७६ संज्ञायां समजनिषदनिपतमनविदषुशीभृ. जिणः । (३-३-६६ ) समजाजिभ्यः स्त्रियां भावादी क्यप् स्यात्स चोदात्तः संज्ञायाम् । 'प्रजेः क्यपि वीभावो नेति वाध्यम्' (वा १५६६)। समजन्स्यस्यामिति समज्या सभा। निषीदन्यस्यामिति निषद्या पापणः । निपतन्त्यस्यामिति निपल्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपाश्चशिरा । विद. भस्यनया विद्या । सुत्या अभिषवः। शय्या। भृत्या । ईयतेऽनया इत्या शिबिका। ३२७७ कृनःश च । (३-३-१००) कृतः इति योगविभागः। कृमः क्यस्यात् । कृत्या । 'श च । चास्किन् । किया। कृतिः । ३२७८ इच्छा। निपातनादित्त्वे श्राद्गुणे हेतिरिति रूपम् । हिनोतेरिति । हिधातोः क्लिनि तु 'क्लिति च' इति निषेधं बाधित्वा निपातनाद् गुणे रूपमित्यर्थः । कीर्तिरिति । कत संशब्दने । स्वार्थिकण्यन्ताद् ‘ण्यासश्रन्यो युच्' इति युचं बाधित्वा किनिपात्यंत । उदात्तश्च सः । ब्रजयजोः । पन्नम्यर्थे षष्टी । स्त्रियामित्येव । बज्येति । 'वज गती' क्यप । 'जयजोः' इति पाठे 'वृजी वर्जने' इत्यस्मात् क्यप, वृज्या। इज्येति । 'चिस्वपि' इति संप्रसारणम् । संज्ञायां समजनिषद । समज, निषद, निपत, मन, विद, पुञ् , शीङ्, भृञ् , इण् , नवानां समाहारद्वन्द्वात्पञ्चमी । 'अजेयं घपोः' इति प्राप्ते आह अजेः क्यपीति । समजन्तीति । सङ्घीभवन्तीत्यर्थः । समज्या सभेति । संपूर्वादजेः क्यप्। 'समज्या तु सभा गोष्टी' इत्यमरः। निषद्येति । निपूर्वात्सदेः क्यप् । 'सदिरप्रतेः' इति षत्वम् । 'आपणस्तु निषद्यायाम्' इत्यमरः । निपत्येति । निपूर्वात्पतेः क्यप् । पिच्छिलेति । निनोन्नता भूमिरित्यर्थः । गलेति । 'पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः । विद्येति । वेदशास्त्रादिरित्यर्थः । सत्येति । सोमेज्या । पुनः क्यप् । तुक् । इत्या शिबिकेति । कोशो मृग्यः । कृषःश च । चात् क्यप् । शेति लुप्तप्रथमाकम् । कृषः शः स्यात् क्यप् चेति प्रतीयमानार्थः । एवं सति कृतिरिति किन्न स्यात् , त्रियां वाऽसरूपविध्यभावात् । तत्राह कृत्र इति योगविभाग इति । तत्र क्यबित्यनुवृत्ति मत्वा आह कृतः क्यप् स्यादिति । कृत्येति । कृमः क्यपि तुक् । श चेति द्वितीयखण्डोऽयम् । इत्येव । पित्करणं तूत्तरत्र तुगर्थम् । गलपार्वेति । तया हि क्रुद्धो ज्ञायत इति भावः । शेरतेऽस्यामिति शय्या। भरणं भृत्या जीविका । 'कुमारभृत्याकुशलैरधि. ष्ठितः' इति रघुः । 'कुमारभृत्या गर्भिण्या: परिचर्याभिधीयते' इति हारावली । संज्ञायां किम् । मतिः । मृतिः । श्रासुतिः । तथा च व्यवहृतम् ‘मतिबुद्धिपूजार्थेभ्यश्च' 'कर्मणि मृतौ' 'रजःकण्यासुति-' इत्यादि । एतेन 'मतिबुद्धि-' इत्यादिसूत्रप्रयोगा