SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ३३५ । स्थितिः । संगीतिः । संपीतिः । पक्तिः । कथम् अवस्था संस्था इति । 'व्यवस्थायाम्' इति ज्ञापकात् । ३२७४ ऊतियूतिजूतिसातिहेतिकीर्तयश्च ( ३-३-६७ ) अवतेः 'ज्वरस्वर' ( सू २६५४ ) इत्यूट् । ऊतिः । स्वरार्थ वचनम् | उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । ‘द्यतिस्पति' ( सू ३०७४ ) इतीरखे प्राप्ते इह इत्वाभावो निपात्यते । सनोतेर्वा 'जनसन' ( सू २५०४ ) इत्यास्त्रे कृते स्वरार्थ निपातनम् । हन्तेर्हिनोतेर्वा होत : कीर्तिः । ३२७५ व्रजयजोर्भावे क्यप् । ( ३-३-१८) त्यादि । 'यतिस्यतिमान्थाम्' इति इत्वम् 'घुमास्थागापा' इति च ईत्वम् । कथमिति । 'स्थागापा' इति क्लिना 'श्रतश्चोपसर्गे' इति वक्ष्यमाणस्य अङो बाधादिति भावः । समाधत्ते व्यवस्थायामिति ज्ञापकादिति । ऊतियूति । एते स्त्रियां क्लिन्नन्ता निपात्यन्त इत्यर्थः । ऊठिति । अकारवकारयोरित्यर्थः । ननु 'स्त्रियां क्विन्' इत्येव सिद्धे किमर्थमिदमूर्तिप्रहणमित्यत श्राह स्वरार्थमिति । कः स्वर इत्यत आह उदात्त इतीति । 'मन्त्रे वृषेषपचमनविदभूवीरा उदात्ताः' इति पूर्वसूत्रस्थमुदात्तग्रहणमेकवचनान्ततया विपरिणतमिहानुवर्तत इत्यर्थः । तथा च क्लिन उदात्तत्वं लभ्यते । अन्यथा ञ्णित्यादिर्नित्यमिति प्रकृतेरुदात्तत्वं स्यादित्यर्थः । अनयोरिति । युधातोर्जुधातोश्चेत्यर्थः । स्यतेरिति । ' षोऽन्तकर्मणि' इत्यस्मात् क्विनि सातिरिति रूपमित्यर्थः । 'आदेचः' इत्यात्त्वम् । तत्र 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वमाशङ्कय आह इह इत्त्वाभाव इति । सनधातोर्वा सातीति निपातनमित्याह सनोतेर्वेति । सर्वा क्विनि 'जनसन' इत्यात्त्वे कृते सातीति निपातनमित्यर्थः । अत्र 'द्यतिस्यति' इतीत्त्वस्याप्रसक्तेस्तदभावो न निपात्यते इति लाघवमिति भावः । ननु सनोतेः स्त्रियां क्लिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत श्राह स्वरार्थमिति । 'मन्त्रे वृष' इति पूर्वसूत्राद् उदात्तग्रहणानुवृत्तेः क्लिन उदात्तत्वं सिध्यति । अन्यथा प्रकृतेरुदात्तत्वं स्यादित्यर्थः । हन्तेरिति । हनः क्विनि नकारस्य 1 द्भवत एव । का त्वं स्थायिकां त्वं स्थायिमिति भाष्यकारप्रयोगात् । प्रस्थितिरिति । 'द्यतिस्यतिमास्थाम् -' इत्यात इत्वम् । सङ्गीतिरिति । 'घुमास्था-' इत्यादिना ईत्वम् । उदात्त इतीति । 'मन्त्रे वृषेष -' इति सूत्रादनुवर्तत इत्यर्थः । एव चक्तिन्नन्तस्यायुदात्तले प्राप्ते 'ऊतियूति-' इत्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः । इत्वाभाव इति । 'यतिस्यति -' इति प्राप्तस्याभाव इत्यर्थः । हन्तेरिति । नकारस्थेत्वं, हिनोतेस्तु गुण इति बोध्यम् । कीर्तिरिति । कीर्तयतेः 'रायासश्रन्थ-' इति युचि प्राप्ते क्तिन्निपात्यते उदात्तत्वं च । 'तां सुते कीर्तिम्' व्रजयजोः । उदात्त 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy