________________
३३४ ] सिद्धान्तकौमुदी। [उत्तरकृदन्तस्तुतिः । अश्वादिभ्यः निविष्ठावद्वाच्यः (वा ४८२६)। तेन नत्वम् । कीणिः । गीणिः । लूनिः । धूनिः । पूनिः । 'हादः' (सू ३०७३ ) इति योगविभागा. स्तिनि हस्वः । प्रह्लनिः । 'तिच' (सू ३०३७ )। चूर्तिः । फुरितः । 'चायतेः निनि चिभावो वाच्यः' ( वा ४१३३)। अपचितिः। 'संपदादिभ्यः विप् (वा २२३३) संपत् । विपत् । '
किपीष्यते'। संपत्तिः। विपत्तिः । ३२७३ स्थागापापचो भावे ( ३-३-६५) क्लिन्स्यादडोऽपवादः। प्रस्थितिः । उप. षत्वम् । ऋल्वादिभ्य इति । ऋकारान्ताल्ल्वादिभ्यश्च पर इत्यर्थः । तेनेति । निष्ठावद्वचनेनेत्यर्थः । नत्वमिति । 'रदाभ्यां निष्ठातः' इति नत्वस्य प्रकृतत्वादिति भावः । कीर्णिरिति । कृधातोः क्लिनि इत्वे रपरत्वे 'हलि च' इति दीर्घः । तकारस्य नत्वम् , णत्वम् । एवं गधातोः गीणिः । ल्वादिभ्यः उदाहरति लूनिरित्यादि । अथ प्रहृन्निरित्यत्र उपाधाहखं साधयति हाद इतीति । 'हादो निष्ठायाम्' इत्युपधाहवविधौ हाद इति योगविभागाद् अनिष्टायामपि क्वचिद्धस्व इति भावः । भाष्ये तु नैतद् दृष्टम् । अथ चरेः फलेश्च क्लिनि अकारस्य उत्वं स्मारयति ति चेति । चरफनोश्च, उत्परत्यातः, इत्युत्तरमिदं सूत्रम् । तादौ प्रत्यये परे चरफलोरत उकारः स्यादिति व्याख्यातं यङ्लुक्प्रकरणे । चूर्तिरिति । चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घः । फलितरिति । फलेः क्लिनि उत्वे रूपम् । रेफवान्तत्वाभावान दीर्घः । उभयत्रापि 'तितुत्र' इति नेट् । सम्पदादिभ्यः विप् । वार्तिकम् । भावे अकर्तरि च कारके स्त्रियाम् इति शेषः । ननु अस्त्रियामिति निषेधेन वाऽसरूपविधेरभावात् किपाऽनेन क्विनो बाधात् संपत्तिरित्यादि कथमित्यत आह किन्नपीप्यते इति । 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणेन सिद्धमित्याहुः । भाष्ये तु नैतद् दृश्यते । स्थागापा । किन् स्यादिति । विप् तु अस्वरितत्वानानुवर्तत इति भावः । अङ इति । स्थादिभ्यस्त्रिभ्यः 'पातश्चोपसर्गे' इति वक्ष्यमाणस्य, पचेस्तु 'षिद्भिदादिभ्यः' इति विहितस्याप्रत्ययस्यापवाद इत्यर्थः । प्रस्थितिरिऽनया इष्टिः । स्तूयतेऽनया स्तुतिः । तेन नत्वमिति। कीर्णिरित्यादौ 'रदाभ्याम्-' इत्यनेन नत्वम् । लूनिरित्यादौ तु 'ल्वादिभ्यः' इत्यनेनेति विवेकः । ह्राद इति । 'हादो निष्ठायाम्' इत्यत्रेत्यर्थः । चूर्तिरिति । 'ति च' इति चरफलोरुत्वे 'वोरुपधाया दीर्घः' इति दीर्घः । चायतेः । चाय पूजानिशामनयोः । निन्नपीति। अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरवाधादिदमुक्तम् । अङोऽपवाद इति । पुरस्तादपवादन्यायेन स्थादिभ्यः 'श्रातश्चोपसर्गे' इति, पचेस्तु 'षिद्भिदादिभ्यः-' इति प्राप्तस्यागेऽपवादो नतु एवुलिमोरिति भावः । एवुलियौ तु परत्वा