________________
प्रकरणम् ६८ ] बालमनोरमा-तत्त्वोधिनीसहिता। [३३३ ३२७२ स्त्रियां केन् । ( ३-३-६४ ) स्त्रीलिङ्गे भावादी क्विन्स्यात् । घोऽपवादः। अजा तु परस्वाद्वाधते । कृतिः । चितिः । स्तुतिः । स्फायी स्फातिः। 'स्फीतिकामः' इति प्रामादिकम् । कान्ताद्धारवर्थे णिचि 'अच इ.' इति वा समाधेयम् । श्रुयजीषिस्त भ्यः करणे' (वा२२११)। श्रूयतेऽनया श्रुतिः । यजेरिषश्च इष्टिः । कर्मण्युपपद इत्यादि । स्त्रियां किन् । 'कृत्यल्युटो बहुलम्' इत्यतः प्राक् स्त्रियमित्यधिक्रियते । स्त्रीलिङ्ग इति । स्त्रीत्वविशिष्टे भाडे अकर्तरि च कारके इत्यर्थः । धानुमात्रादय क्लिन् । घोऽपवाद इति । 'हलश्च' इति वक्ष्यमाणघोऽपवाद इत्यर्थः । एवं व स्त्रीत्वविशिष्टे भावादौ क्लिन्नेव । घञ् तु पुंस्त्वविशिष्टभावादाविति लभ्यते । वाऽसाविधिर्नात्र प्रवर्तते, अस्त्रियामित्यक्तेः । ननु तर्हि इकारान्ताद् ऋकारान्ताद् उकार न्ताच स्त्रीत्वविशिष्टे भावादी ‘एरच्' इति 'ऋदोरप्' इति च अजपावेव तिनं बारित्वा स्याताम् , विशेषविहितत्वात् । स्त्रियां वाऽसरूपविध्यभावाचेत्यत आइ अजय त्विति । तौ तु पुंस्त्वविशिष्टे भावादौ सावकाशाविति भावः । स्फीतिरिति । 'तोपो व्योः' इति यलोपः। 'तितुत्र' इति नेट् । प्रामादिकमिति । 'स्फायः स्फी निष्ठायाम्' इति स्फीभावस्य निष्ठायामेव प्रवृत्तेरिति भावः । कथंचित्समाधत्ते हान्तादिति । (स्फायः क्तप्रत्यये स्फोभावे स्फीतशब्दः । स्फीतस्याख्यानं क्रि॥ वा स्फीतिः । तत्करोति तदाचष्टे' इति णिच् , अल्लोपः । 'अच इ.' इति भावे इप्रत्ययः । स्फीतिं कामयते इति स्फीतिकाम इति वा कथंचित्समाधेयमिति भावः ) श्रुयजीपिस्तुभ्यः करणे । वार्तिकम् । एभ्यश्चतुर्व्यः करणे स्त्रियां क्तिन्नि यर्थः । श्रुधातोः स्तुधातोश्च ‘एरच्' इति 'भोरप्' इति च प्राप्ते यजीष्योस्तु 'हलश्व इति धनि च प्राप्ते वचनम् । भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्ते करणग्रहणम् । इष्टिरिति । यजेः 'वचिस्वपि' इति संप्रसारणम् । व्रश्चादिना किन्तु विध विधान इत्यस्मादिगुपधाकिदितीनि रूपसिद्धेः । स्त्रियां क्तिन् । घनोऽपवाद इति । यत्तु प्रकियाग्रन्थं व्याचक्षाणा आहुः-भाष्ये त्वधिकः कारोऽधिकार इति चञप्युदाहृत इति तद्रभसात् । न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः किंतु पुंस्त्वविशिष्ट ति ध्येयम् । अजपौ त्विति । तयोरवकाशः । चयः । लवः। क्तिनोऽवकाशः । कृतिः । हातः । चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः । प्रामादिकमिति । 'स्फायः स्फी निष्ठायाम्' इति निष्टायमेव स्फी. भावविधानादिति भावः । श्रयजीति। परत्वात् 'करणाधिकरणयोश्च' इति ल्युटि प्राप्त वचनम् । श्रुतिः श्रोत्रम् । यजेरिति । यजेः क्लिनि 'वचिस्वपि-' इति संप्रसा. रणे 'वश्वभ्रस्ज-' इति षत्वे इष्टिरिति रूपम् । इज्यतेऽनयेति विग्रहः । एवमिष्यते.