________________
३३२ ]
सिद्धान्तकौमुदी ।
[ उत्तरकृदन्त•
न विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डु वप । उष्त्रिमम् । ३२६७ द्वितोऽथुच् । ( ३-३-८६ ) अयमपि स्वभावाद्भाव एव । टु वेट, वेपथुः । श्वयथुः । ३२६८ यजग्राचयतविच्छप्रच्छुरक्षो नङ् । ( ३-३-१० ) यज्ञः । याच्ञा । यत्नः । विश्नः प्रभः । 'प्रश्ने' चासन्न' ( सू २७७७ ) इति ज्ञापकाच संप्रसारणम् । डिस्वं तु विश्व इत्यत्र गुणनिषेधाय । रचणः ३२६६ स्वपो नन् ( ३-३-६१ ) स्वप्नः | ३२७० उपसर्गे घोः किः । ( ३-३-६२ ) प्रधिः । श्रन्तर्विः । उपाधीयतेऽनेनेत्युपाधिः । ३२७१ कर्मण्यधिकरणे च (३-३-६३) कर्मयुपपदे घोः क्रिः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ||
1
मिति योगान्तरं विज्ञायते । तथा च निर्वृत्ते इति निवृत्तम् । तथा च वित्रप्रत्ययान्तः निरृत्तार्थयोगे तदयोगे च सर्वदा मध्प्रत्ययान्त एव स्यादिति लभ्यते । एवंच क्त्रिप्रत्ययो मप्प्रत्ययं विना केवलः क्वापि न प्रयुज्यते इति लभ्यत इत्यर्थः । एतच्च भाष्ये स्पष्टम् । अतएवेति । वित्रप्रत्ययस्य मप्प्रत्ययं विना प्रयोगाभावात् पत्र्या निरृत्तमिति स्वपदविग्रहो नास्ति । किंतु पाकेन निर्वृत्तमित्यस्वपदविग्रह इत्यर्थः । उष्त्रिममिति । कित्त्वात् 'वचिस्वपि' इति संप्रसारणमिति भावः । द्वितोऽथुच् । अथुजिति छेदः । टु इत्यस्येति विग्रहः । श्वयथुरिति । 'टु श्रश्वि गतिवृद्धघोः' इत्यस्य रूपम् । यजयाच । 'अकर्तरि च कारके' इति भाव इति चानुवर्तते । याञ्चेति । नस्य रचुखेन यः । विश्न इति । विच्छेनेड् । 'च्छ्वो:' इति शः । एवं प्रच्छेर्न रूपम् । 'प्रहिज्या' इति संप्रसारणमाशङ्कय यह प्रश्ने चेति । ननु संप्रसारणाभावे वित्त्वं व्यर्थमित्यत श्राह ङित्वं त्विति । स्वपो नन् । नकारो नित्स्वरार्थः । उपसर्गे घोः किः । भावे कर्तरि च कारके । कित्त्वमातो लोपार्थम् । प्रधिरिति । धाओ रूपम् । उपाधीयते इति । स्वनिष्ठधर्मः श्रन्यत्रासज्यते इत्यर्थः । कर्मण्यधिकरणे च । इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् । तदाह
उप्त्रिममिति । वपेर्यजादित्वात्किति संप्रसारणम् । वापेन निरृत्तमित्यर्थः । यज याच । भावेऽकर्तरि कार के चेति वर्तते । अतएव 'यज्ञेन यज्ञमयजन्त देवाः' इत्यत्र इज्यते इति यज्ञ इति व्याचक्षते । विश्न इति । 'च्छ्वोः शूडनुनासिके च' इति शः । उपसर्गे घोः किः । बाहुलकारकर्तर्यपीति माधवः । श्रतएव उप समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते । कित्त्वादातो लोपः । अन्तर्धिरिति । ‘अन्तःशब्दस्याङ्किविधि-' इति वार्तिकादुपसर्गत्वम् । उपाधी पते ऽनेनेति । एनेन उप समीपे स्वधर्ममादधातीत्युपाधिः । बाहुलकारकर्तरि किरिति माधवादिग्रन्थो वादर्तव्य इति ध्वनितम् । 'विधाता विश्वसद्विधिः' इत्यत्रापि कर्तरि माभूत किः