________________
३३० ]
सिद्धान्तकौमुदी ।
[ उत्तरकृदन्त
अत्याधानमुपरिस्थापनम् । यस्मिन्काष्ठेऽन्यानि काष्ठानि स्थापयित्वा तचयन्ते तदुद्धनः । अधिकरणेऽप् । ३२५८ अपघनोऽङ्गम् ( ३-३-८१ ) अङ्गं शरीरावयवः । स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽम्यः । ३२५६ करणेऽयोविद्रुषु । ( ६-३-८२) एषु हन्तेः करणेऽप्स्याद्धनादेशश्च । अयो हन्यतेऽनेनेत्ययोधनः । विघनः । दुधनः । दुधा इत्येके । 'पूर्वपदात्संज्ञायाम् -' ( सू ८५७ ) इति णत्वम् । संज्ञेषा कुठारस्य । दुर्वृक्षः । ३२६० स्तम्बे क च । ( ३-३-८३) स्तम्ब उपपदे हन्तेः करणे कः स्यादच, पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः । ३१६१ परौ घः । ( ३-३-८४ ) परौ हन्तेरप्स्यात्करणे घशब्दश्वादेशः । परिहन्यतेऽ • नेनेति परिघः । ३२६२ परेश्च घाङ्कयोः । ( ८-२ - २२ ) परे: रेफस्य लो वा स्थादशब्देऽङ्कुशब्दे च | पलिघः परिघः । पर्यङ्कः पल्यङ्कः । इह 'तरप्तमपौ घः' ( सू: २००३ ) इति कृत्रिमस्य न ग्रहणं, व्याख्यानात् । ३२६३ उपघ्न श्राश्रये । ( ३-३-८५) उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च । श्राश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपनः । ६२६४ aist गणप्रशंसयोः । ( ३-३-८६ ) संहननं संघः । भावेऽप् । उद्धन्यते
I
1
उत्पूर्वाद् हन्तेरप् । हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः । श्रपघनोऽङ्गम् । अनं वाच्यं चेद् श्रपपूर्वाद्धन्तेरप् । हस्य घत्वे चापघन इति निपात्यत इत्यर्थः । पाणिः पादश्चेति । अत्र व्याख्यानमेव शरणम् । करणे इति । श्रपहन्यतेऽनेनेति करणव्युत्पत्तेरिति भावः। करणेऽयोविद्रुषु । अयस्, वि, दु, एषां द्वन्द्वः ।
घन इति । श्रसंज्ञात्वात् 'पूर्वपदात्संज्ञायाम्' इति न णत्वमिति भावः । संज्ञात्वमते आह द्रुघण इति । स्तम्बे क च । केति लुप्तप्रथमाकम् । अप च पक्षे इति । अप्संबद्धस्यैव घनादेशस्यानुवृत्तेरिति भावः । स्तम्बघ्न इति । कप्रत्यये सति ‘गमहन' इत्युपधालोपः । स्तम्बघात इति । घञि 'चजो:' इति कुत्वम् । परौ घः । करणे हन इति अविति चानुवर्तते । तदाह-परौ हन्तेरिति । परेश्च घाङ्कयोः । रेफस्य लो वेति । 'कृपो रो लः' इत्यतो रो ल इति 'अचि विभाषा' इत्यतो विभाषेति चानुवर्तत इति भावः । ननु 'कृत्रिमा कृत्रिमयोः कृत्रिमे कार्य संप्रत्ययः ' इति न्यायादिह घसंज्ञकयोः तरप्तमपोरेव ग्रहणं स्यात् नतु घशब्दस्य, 'स्वं रूपं शब्दस्य' इत्यत्र शब्दसंज्ञेति पर्युदासाच्चेत्यत श्राह इहेति । उपन्न श्राश्रये । आश्रये गुम्ये उपघ्न इति निपात्यते इत्यर्थः । फलितमाह उपपूर्वादिति । लक्ष्यते इति । व्याख्यानादिति भावः । सङ्घोद्धौ । यथासंख्यमन्वयः । गणे सङ्घ इति ।
"