________________
३२८ ]
सिद्धान्तकौमुदी ।
[ उत्तरकृदन्त
T
श्रीमभिसरण लहामदीव्यन्' । तेषु किम् । पादस्य ग्रहः । ३२४८ प्रजने सर्ते । ( ३-३-७१ ) । प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथम् अवसरः प्रसरः इति । अधिकरणे 'पुंसि संज्ञायाम् ' ( सू० ३२३६ ) इति घः । ३२४६ ह्रः संप्रसारणं च न्यभ्युपविषु । । ३ - ३-७२ ) निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः । ३२५० आङि युद्धे । "पणोऽतेषु ग्लहः' इत्यमरः । अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम्, न त्वक्ष देवनत्वेनेत्यभिप्रेत्योदाहरति । व्यात्युक्षीमिति । माघकाव्यस्थमिदम् । 'दिवरस्तदर्थस्य' इति करणस्य कर्मत्वाद् द्वितीया । अभिसरणग्लहाम् । अभिसरणं चौर्य सुरतार्थमभिगमनम् । तदेव ग्लहः परणरूपेण प्राह्यं द्रव्यं यस्याः तथाविधां व्यात्युक्षीम् 'उक्ष सेचने' परस्परं जलसेचनं व्यात्युक्षी तयेत्यर्थः । 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच् । व्यात्युक्षशब्दाद् 'णचः स्त्रियामन्' इति स्वार्थे श्रञ् तद्धितः । श्रदिवृद्धिः । 'टिड्ढ' इति ङीप् । क्रीडायां जितवते पुंसे अभिसरणमेव पणत्वेन समयबन्धं कृत्वा प्रवृत्तेन परस्परजलसेचनेन प्रक्रीडन्निति यावत् । अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधन कत्वाभावेऽपि ग्लेहरप् भवत्येव । सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् । अक्षक्रीडाया एवं विवक्षितत्वे विह ग्लहेरपु न स्यादिति भावः । क्षेषु किमिति । देवने किमित्यर्थः । पादस्य ग्रह इति । वन्दनाद्यर्थमिति भावः । अत्र प्रहुधातोः प्रहवृदृ' इत्यप् । न तु लत्वम् । ग्लद्देस्तु घञि पादस्य ग्लाह इव । प्रजने सर्तेः । प्रजनं प्रथमगर्भग्रहणमिति । प्रशब्द श्राद्यर्थकः । प्रथमं जायते इति भावे घञ् । 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः । प्रजनार्थकात् सृधातोरप् स्यादिति फलितम् । कथमिति । उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावाद् घञि उपधावृद्धिः स्यादित्याक्षेपः । समाधत्ते अधिकरण इति । उपसरत्यस्मिन्निति प्रसरत्यस्मिन्निति च अधिकरणकार के कालेऽर्थे 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः । ह्रः संप्रसारणं च । नि, अभि, उप, वि एषु चतुर्षुपपदेषु ह्वयतेरप् स्यात् संप्रसारणं च । घञोऽपवादः । निहव इति । अप । वस्य संप्रसारणमुकारः, पूर्वरूपं, तस्य गुणावादेशौ । प्रह्वाय इति । घञि वृद्धयायादेशौ । आङि युद्धे । श्राङि उपपदे ह्वयतेरप् संप्रसारणं च
प्रसंभ्यां हर्षे इति तु नोक्तम्। प्रसंमदः संप्रमद इति हर्षे माभूदिति । प्रजने सर्तेः । प्रजननं प्रजनः । भावे घञ्, 'जनिवध्योः -' इति वृद्धिनिषेधः । प्रशब्दबलादत्र जनेरर्थान्तरत्वम् । प्रतिष्ठते इत्यत्राप्रादुर्भावो यथा । तदेतदाह प्रथमगर्भग्रहणमिति । काशिकानुरोधेनेदमुक्तम् । प्रथमं द्वितीयं वेत्यनाग्रहः किंतु गर्भग्रहण