________________
प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२७ वीणाविषयाच्च क्वणतेरवा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निकणः निकाणः। क्वणः काणः । वीणायां तु, प्रकणः प्रकाणः । ३२४३ नित्यं पणः परिमाणे। (३-३-६६) अप स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्वध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः । ३२४४.मदो. ऽनुपसर्गे । (३-३ ६७) धनमदः । उपसर्गे तु, उन्मादः । ३२४५ प्रमदसंमदी हर्षे (३-३-६८) हर्षे किम् । प्रमादः । संमादः । ३२४६ समु. दोरजः पशुषु । (३-३६६) संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मा. स्पशुविषयकादप्स्यात् । 'अघनपोः' इत्युक्तीभावो न । समजः पशूनां संघः। उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रिया. णाम् । ३२४७ अनेषु ग्लहः। (३-३-७०) अक्षशब्देन देवनं लश्यत, तत्र यस्पणरूपेण ग्रामं तत्र ग्लहः इति निपात्यते । प्रक्षस्य ग्लहः । 'व्यात्युननु कणश्चेत्येतावता नौ उपसर्गे च क्वणः अब्वेत्यर्थलाभाद् वीणाविषयादपि कणः सिद्धेः वीणायामिति व्यर्थमित्यत आह वीणाग्रहणं प्राद्यर्थमिति । सोपसर्गार्थमि. त्यर्थः । नित्यं पणः । अबिति शेषः । 'पण व्यवहारे' इत्यस्मान्नित्यमप स्यात् परिमाणविशेषे पम्य इत्यर्थः । नित्यग्रहणाद्वाग्रहणं निवृत्तम् । व्यवहारार्थमिति । विक्रयार्थमित्यर्थः । पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति कर्मण्यम्। मूलकानां पण इति विप्रहः । मदोऽनुपसर्गे। अनुपमै उपपदे मदेरबित्यर्थः । प्रमदसंमदौ । प्रमद, संमद एतावबन्तौ निपात्येते हर्षे गम्ये इत्यर्थः। कन्यानां प्रमदः, कोकिलानां समदः इत्युदाहरणम् । 'प्रसमोर्मदो हर्ष' इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् । समुदोरजः । समुदोः अजः इति च्छेदः। सम् , उत् , अनयोः उपपदयोरित्यर्थः । अक्षेषु ग्लहः । अक्षशब्दे उपपदे इत्यर्थ अक्षेष्विति बहुवचनानुपपत्तिरित्यत आह अक्षशब्देनेति । लक्ष्यते इति । प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः । तत्रेति । देवने इत्यर्थः । पणरूपेणेति । देवने जितवते पराजितेन देयं द्रव्यं पणं, तेन रूपेण ग्राह्यं यद् द्रव्यं तस्मिन् कर्मणि 'प्रह उगदाने' इति धातोः 'ग्रहवृद्ध' इस पप्रत्ययान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थः । 'गृहू प्रहणे' इत्यत्र तु 'ग्लह च' इति पठितम् । तत्र ग्लहेरप्प्रत्ययो निपात्यते । घमपवादः । अक्षस्य ग्लह इति । अक्ष क्रीडायां पणत्वेन प्रायमित्यर्थः । मन्त्रभेदः । 'शब्द निनादनिनदध्वनिध्वानरवस्वनाः । स्वानः' इत्यमरः । क्वण । 'निकाणो निक्कणः क्वाणः क्वणः क्वणनमित्यपि । वीणाया क्वणिते प्रादेः प्रकाणप्रक्कणादयः' इत्यमरः । मदो अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ । प्रमद ।