________________
३२२]
सिद्धान्तकौमुदी। [उत्तरकृदन्तस्यात् । ज्यावक्रोशी । ज्यावहासी । ३२१८ अभिविधौ भाव इनु । (३-३-४४) (आदिवृद्धिः) । ३२१६ अणिनुणः । (५-४-१५) 'इनण्यनपत्ये' (सू १२४५) । (स्वभावतः पुरतो,) सांराविणं वर्तते । ३२२० आक्रोशेऽवन्योर्ग्रहः। (३-३-४५) प्रव, नि एतयोग्रंहेर्घनस्यात् शापे। अवग्राहस्खे भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । माक्रोशे किम्-अवग्रहः पदस्य । (छेदः पदस्येत्यर्थः ) । निग्रहश्वोरस्य । व्यावक्रोशीति । परस्परं निन्दक इत्यर्थः । व्यावहासीति । परस्परं हासक इत्यर्थः । उभयत्रापि 'ण वः स्त्रियामञ्' इति स्वार्थिकोऽञ् तद्धितः । 'टिड्ढ' इति बीप् । अभिविधौ । कात्स्न्यन संबन्धः अधिविधिः, तस्मिन् गम्ये इनुण् स्यात् भावेऽर्थे इत्यर्थः । 'अणिनुण' इत्यनेन सूत्रेण इनुणन्तात् श्रण तद्धितः स्वार्थिक इत्यर्थः । श्रादिवृद्धिरिति । तद्धितेष्वचामादेरित्यनेनेति शेषः । साराविन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपमाशक्य प्रकृतिभावं स्मारयति इनण्यनपत्य इति । स्वभावत इति । लोकाश्रयत्वाल्लिजस्येति भावः । आक्रोशेऽवन्योहः । एतयोरिति । उपपदयोरिति शेषः । 'प्रहनिश्चिगमश्च' इति वक्ष्यमाणस्य इति ध्वनितम् । स्त्रियां किम् । व्यतिपाको वर्तते । ऐच नेति । 'न य्वाभ्याम्-' इति प्राप्तस्य निषेधेनादिवृद्धिरेव । णचस्तद्धितत्वाभावेऽप्यास्तद्धितत्वादिति भावः । कृग्रहणपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽनि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति-व्यावक्रोशीति । क्रुश आह्वाने, हसे हसने । स्यादेतत्-स्त्रियां विनिति प्रकरण एवायं णज्विधेयः । एवं च स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम् । स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तः। इष्यते तु व्यावक्रुष्टिरिति स्त्रियां क्विन्नपि अपवादविषये कचिदिष्यते। व्यावचोरी । इह 'ण्यासश्रन्थ-' इति युच्प्राप्तः । व्यात्युक्षी । अत्र 'गुरोश्च हलः' इत्यकारप्रत्ययः प्राप्तः । क्वचिदकार एवेष्यते न तु णच । व्यतीक्षा, व्यतीहा । सैषा व्यवस्था न्यायतो दुर्लभापि बाहुलकात्स्वीकार्या। अभिविधौ। अभिविधौ किम् । संरावः । वासरूपेण घञ् कश्च न भवति पुनर्भावग्रहणात् । न च कर्तृभिन्नकारकनिवृत्तये भावग्रहणमिति वाच्यम् । पूर्वसूत्र इव शक्तिस्वाभाव्यादेवकारकेऽनुणोऽप्रवृत्तेः । ल्युटा तु समावेश इष्यते । तच्च बाहुलकाल्लभ्यत इत्याकरः। अणिनुणः। अतएवेनुणो णानुबन्धो विशेषणार्थ इति ध्वनितम् । सांराविणमिति । समन्ताच्छन्द इत्यर्थः । संशब्दोऽभिविधिद्योतकः । पूर्ववत्सगतिकादण। अणस्तद्धितत्वादादिवृद्धिः । 'इनएयनपत्ये' इत्यनपत्याणि इनः प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपेन न निवृत्तिः ।