________________
प्रकरणम् ६८ ]
बालमनोरमा-तत्वबोधिनीसहिता
[ ३२१
कारकस्योपाधिभूताः । निवासे - काशी निकायः । चितौ - आकायम िचिन्वीत । शरीरे-धीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे - गोमयनिकायः । एषु किम्चयः । 'चः कः' इति वक्तव्ये श्रादेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः । ३२१४ संघे चानौत्तराधर्ये । ( ३-३-४२) चेर्घञ्, प्रादेश्व कः । भिक्षुनिकायः । प्राणिनां समूहः संघः । श्रनोत्तराधर्ये किम्-सूकरनिचय: । ( स्तन्यपानादौ उत्तराधरभावेन शेरते ) संघे किम् । ज्ञानकर्मसमुच्चयः || ३२१५ कर्मव्यतिहारे णच् स्त्रियाम् । (३-३-४३) स्त्रीलिङ्गे भावे णच् । ३२१६ राचः स्त्रियामञ् । ( ५-४-१४ ) ३२१७ न कर्मव्यतिहारे । ( ७-३-६ ) अत्र ऐज़
1
अन्ये इति । निवासचितिशरीरात्मका अर्था इत्यर्थः । उपाधिभूता इति । विशेषणभूता इत्यर्थः । श्रजपवादः । काशी निकाय इति । निचीयते मोक्षोऽत्रेत्यधिकरणे घञ् । काशी मोक्षार्जनस्य निवास इत्यर्थ: । 'चजोः कु घिराण्यतो:' इत्यस्य श्रव्यवहितयोरेव चजोः प्रवृत्तेरिह कत्ववचनम् । आकायमिति । श्रचीयते इति कर्मणि घञ् । शरीरे इति । उदाहरणसूचनमिदम् । समूहे इति । उपसमाधानस्योदाहरण सूचनम् । निचीयते राशीक्रियते इति भावे घञ् । ननु 'निवासचितिशरीरोपसमाधानेषु चः क' इत्येवास्तु । चकारस्य ककार इत्यर्थलाभादित्यत श्राह चः कइति वक्तव्य इति । पुनः पुना राशीति । अत्र 'रो रि' इति लोपे 'ठूलोप-' इति दीर्घः । संघे चानौत्तराधर्ये । चेर्धमिति । शेषपूरणमिदम् । चेर्घञ् स्यात् सङ्घे वाच्ये न त्वौत्तराधर्ये इत्यर्थः । उत्तराधरयोर्भाव श्रौत्तराधर्यम् । प्राणिनां समूहः सङ्घ इति । व्याख्यानमेवात्र शरणम् । कर्मव्यतिहारे । कर्मव्यतिहारः क्रियाविनिमयः परस्परकरणम् तस्मिन्विषये धातोर्णच् स्यात् स्त्रीत्वे गम्य इत्यर्थः । अत्र 'कर्तरि च कारके' इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् ।
"
मिति । श्रचीयन्तेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अमिस्थलविशेषं चिन्वीत चयनेन निष्पादयेदिति श्रुत्यर्थः । सङ्घे चानौत्तराधर्ये । उत्तरे चाधरे चोत्तराधरास्तेषां भाव श्रौत्तराधर्थम् । सूकरेति । स्तनपानार्थमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि भवत्येव घञ् । कर्मव्यतिहारे णच् । कर्मव्यतिहारः क्रियव्यतिहाररूपः । परस्परकरणमिति यावत् । तत्र वर्तमानाद्धातोरित्यर्थः । भावे राजिति । कर्तृवर्जिते कारके न भवत्यनभिधानादित्याहुः । भावादाविति प्राचोक्तं यदुपेक्ष्यमा कर विरोधात् । णचः स्त्रि । अनेन राजिति चकारोऽत्राविशेषणार्थ