________________
३२० ।
सिद्धान्तकौमुदी। [उत्तरकृदन्तघम्स्यात्क्रमेण द्यूते अभ्रेषे च विषये। परिणायेन शारान्हन्ति। समन्तात्रयनेनेत्यर्थः।। एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम्-परिणयो विवाहः । न्ययो नाशः । ३२१० परावनुपात्यय इणः । ( ३-३-३८) क्रमप्राप्तस्यानतिपातोऽनुपात्ययः । तत्र पर्यायः । अनुपात्यये किम्-कालस्थ पर्ययः, अतिपात इत्यर्थः । ३२११ व्यपयोः शेतेः पर्याये । (३.-३-३६) तव विशायः । तव राजोपशायः । पर्याये किम्-विशयः संशयः । उपशयः समीपशयनम् । ३२१२ हस्तादाने चेरस्तेये । (३-३-४०) हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लच्यते । पुष्पप्रचायः । हस्तादाने किम्-वृताग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अखेये किम्-पुष्पप्रचयः चौर्येण । ३२१३ निवासचितिशरीरोपसमाधानेष्वादेश्च कः । (३-३-४१) एषु चिनोतेञ् स्यात् । प्रादेश्च ककारः। उपसमाधानं राशीकरणम् , तञ्च धात्वर्थः । अन्ये प्रत्ययार्थस्य गम्य इत्यर्थः । मल्लस्य संग्राह इति । दृढग्रहणं मुष्टेरित्यर्थः । परिन्योः । द्यूते अभ्रेषे चेति । द्यूतविषये नयने अभ्रेषविषये गमने च । विद्यमानादित्यर्थः । अचोडपवादः । शारान् । अक्षान् । एषोऽत्र न्याय इति । अभ्रेषेण वर्तनमित्यर्थः । उचितस्यार्थस्य अनपचारः अश्रेषः, तदाह उवितमिति । परावनुपात्यय इणः । परौ उपपदे इण्धातोर्घञ् अनुपात्यये गम्ये इत्यर्थः । तव पर्याय इति । अनतिक्रमणमित्यर्थः । कालस्य पर्यय इति । अतिक्रम इत्यर्थः। तदाह अति. पात इति । व्युपयोः शेतेः । वि, उप, इत्युपपदयोः शोधातोः घन स्यात् पर्याये गम्ये इत्यर्थः । अजपवादः । पर्यायः प्राप्तावसरता । हस्तादाने । हस्तादाने गम्ये चिधातोर्घञ्, न तु स्तेये इत्यर्थः । ननु वृक्षशिखरमात्रमारुह्य पुष्पावचयं करोतीत्यत्रातिव्याप्तिमाशङ्क्याह प्रत्यासत्तिरिति । श्रादेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीयहस्तग्रहण योग्यावस्थितिरित्यर्थः । पुष्पप्रचयं चौर्येणेति । करोतीति शेषः । निवास । 'अकर्तरि च कारके' इति 'भाव' इति चानुवर्तत एव । स्यापोऽपवादः । परिन्योः । कक्षादिभिः श्रीडनं यूतम् । यथाप्राप्तकरणमभ्रेषः । परावनु-' अत्र व्याचख्युः द्विःपरिग्रहणमिह व्यर्थम् , सकृदेव कतुं शक्यम् । तथा हि-परौ नियो द्यूते, इणोनुपात्यये, नावश्रेषे। इह इण इत्यनुवर्तनादियोs. नुपात्यय इत्यत्र तु परावित्यनुवर्तनाचेष्टं सिध्यतीति भावः । ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः । तथा च तदनुवृस्यैव सिद्ध पर्यायग्रहणमिह व्यर्थमिति चेदत्राहुः । पर्यायग्रहणं पुनर्विधानार्थ तेनात्राभिविधिविवक्षायां परमपि 'अभिविधौ भाव इनुण्' इति इनुणं बाधित्वाऽयमेव घञ् भवतीति । आकाय.