SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१६ ] सिद्धान्तकौमुदी। [उत्तरकृदन्त. कर्तरि णिलुक्च' (वा २१८२)। दारयन्तीति दाराः। जरयतीति जारः-उपपतिः । ३१६१ इङश्च । (३-३-२१) घन् । प्रचोऽपवादः । उपेत्यास्मादधीयते कीर्यते विक्षिप्यते इति कारः । धान्यादिराशिः । कर्मणि घञ्, अबपवादः । अत्र विक्षिप्यमाण इति । न च धातोरित्यधिकारादेव धातुमात्रासिद्धे सर्वग्रहणं व्यर्थमिति शक्यम् । प्रकृत्याश्रय एवापवादो बाध्यते न त्वर्थाश्रय इत्येतदर्थ. त्वात् । तेनेह न-एका तिलोच्छ्रितिः। उच्छीयते ऊर्वीक्रियते इत्युच्छितिः, ऊध्र्व कृतो राशिः, कर्मणि स्त्रियां क्विन् । स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावाद् नानेन घमा बाध्यते। किन्तु 'एरच्' 'ऋदोरप' इति प्रकृत्याश्रयावेव अजपौ बाध्येते इति भाष्ये स्पष्टम् । दारजाराविति । वार्तिकम् । द विदारणे, ज वयोहानौ प्राभ्यां एयन्ताभ्यां कर्तरि घज । णिलोपं बाधित्वा णिलुक चेत्यर्थः । दारयन्ति चित्तं विद्रावयन्तीति दाराः भार्या । 'दाराः पुंसि च भूम्न्येव' इत्यमरः । घनि णिलुक् । ण्याश्रयवृद्धौ निवृत्तायां घाश्रया वृद्धिः, तदाह दारयन्तीति दारा इति। जरयति नाशयति कुलमिति जारः, धातोय॑न्ताद् घञ् णिलुक् । णिलोपे सति तु तस्य पर. निमित्तकत्वेन 'अचः परस्मिन्-' इति स्थानिवत्त्वाद् घाश्रया वृद्धिः न स्यात् । न च णिनिमित्त्व वृद्धिरस्त्विति वाच्यम्, 'जनीजृषकसुरोऽमन्ताश्च' इति मित्त्वे 'मिता ह्रखः' इति णिनिमित्तकहखापत्तेः । णिलुकि तु तत्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाभावान ह्रस्व प्रसङ्गः, तदाह जरयतीति जार इति । उपपतिरिति । 'जारस्तूपपतिः समौ' इत्यमरः । इङश्च । घनिति । शेषपूरणम् । इङ् अध्ययने, नित्यमधिपूर्वः । अस्मादकर्तरि कारके घमियर्थः । अकर्तरि चेति सिद्धेराह अचोऽपवाद इति । “एरच्' इत्यस्यापवाद इत्यर्थः। उपेत्येति । समीपं प्राप्य शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः। इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः । सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात् । तेनायं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति । एका तिलोच्छितिः । उत्पूर्वकाच्यतेः कर्मणि भावे वा क्लिन् । उर्वीकृतो राशी. कृत इत्यर्थः । तदेतत्सूचयितुमुक्तम् अजपोरपवाद इति । तयोरपि प्रकृत्याश्रयत्वादप. वादयोः समानविषयौचित्यात् । स्त्रियां क्लिन् त्वर्थाश्रय इति दिक् । दारजाराविति अकर्तरि कारके इत्यधिकाराद् 'ऋदोरप्' इत्यस्य घनपवादत्वाच्च कर्तरि घबर्थमिदं वचनम् । णिलक्चेति। चाद् घन । लोपे हि सति घाश्रया वृद्धिने स्यारिणलोपस्य स्थानिवद्भावेन व्यवधानात् । न च णिज्निमित्तैव वृद्धिरस्त्विति वाच्यम्, जारशब्दे . 'जारयन्तीति जाराः' इत्येवं क्वचित् पाठः । २ 'उपपतिः' इति क्वचिनास्ति।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy