SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१५ परिमाणाख्यायां सर्वेभ्यः। (३-३-२०) घ । भजपोधिनार्थमिदम् । एकस् तण्डुनिचायः । तण्डुलानां निचायो राशिः परिच्छियते । द्वौ शूर्पनिष्पावौ । शूर्पण निष्पावौ । द्वौ कारौ। अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते । 'दारजारौ निपात्यते । श्रन्थेरिति । प्रपूर्वस्य हिमपूर्वस्य च घनीति शेषः । परिमाणाख्यायाम । घनिति । शेषपूरणम् । सर्वेभ्यो धातुभ्यः अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्य इत्यर्थः । ननु 'अकर्तरि कारके-' इत्येव सिद्ध किमर्थमिदमित्यत आह अजपोरिति । 'एरच्' 'ऋदोरप्' इति वक्ष्याणयो - धनार्थमित्यर्थः । 'अकर्तरि च' इति घञ् तु ताभ्यां विशेषविहिताभ्यां बाध्यते, सरूपत्वेन वाऽसरूपविधेरप्रवृत्तेरिति भावः । एकस्तण्डुलनिचाय इति । निष्कृष्य चीयते संधीक्रियते इति निचायः। कर्मकारके वाच्ये 'एरच' इत्यस्यापवादो घञ् । तण्डुल. निचायशब्दे विग्रहं दर्शयति तण्डुलानाम् इति । निचायशब्दस्य विवरणं राशिरिति । परिच्छिद्यत इति तण्डुलावयवकसङ्घातात्मको राशिरकत्वेन परिच्छिद्यते इत्यर्थः। द्वौ शूर्पनिष्पावाविति । निष्पूयते तुषापनयनेन शोध्यते इति निष्पावः तण्डुलादिराशिः। इति कर्मणि घञ् । अबपवादः । शूर्पण निष्पावः शूर्पनिष्पावः । 'कर्तृकरणे कृता बहुलम्' समासः । द्वित्वं तु शूर्पद्वारा निष्पावेऽन्वेति । अतः शूर्यद्वित्त्वमार्थिकं न तु शाब्दमियेकवचनं निर्वाधम् । तदाह शूर्पणेत्यादि । द्वौ काराविति । उन्देरौणादिक मन्प्रत्ययो नलोो गुणश्चात्रापि निपासते। श्रन्थेरिति । प्रपूर्वस्य हिमपूर्वस्य च घनि निपात्यते इति बोध्यम् । प्रायिकमिति । सर्वात्मना संज्ञाग्रहणत्यागे कृतः कट इत्यत्र कारः कट इति स्यादिति भावः। भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम् । परिमाणाख्यायाम् । सर्वेभ्यो धातुभ्यः। परिमाणं परिच्छित्तिः। श्राख्यानमाख्या उक्तिः । परिच्छुित्तरुक्ती सत्यामित्यर्थः । कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते । आख्याग्रहणं रूदिनिरासार्थम् , तेन परिमाणग्रहणेन संख्यात्र गृह्यते । सर्वेभ्यः किम् , अन्यथा पुरस्तादपवादन्यायेनाचमेव घञ् बाधेत न त्वपम् । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायः । अत्र राश्येकत्वेन समुदायेनापरिच्छित्तिराद्गम्यते । 'एरच्' इत्यचि प्राप्ते घञ् । निष्पूयते शोध्यते तुषा. द्यपनयनेन यस्तण्डुलादिः स निष्पावः । 'ऋदोरप्' इत्यपि प्राप्ते घञ् । शूर्पणेति करणे तृतीयान्तस्य 'कर्तृकरणे कृता बहुलम्' इति समासः । अत्र शूर्पसंख्यया तण्डुलादेरपि परिच्छित्तिः । शूर्पद्वित्वं तु आर्थिकं न तु शाब्दम् , निष्पावगतद्वित्वं तु शाब्दम् । यद्यप्यत्र 'निरभ्योः पूल्वोः' इति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः । अप्रत्ययस्य मुख्योदाहरणमाह द्वौ काराविति । कृ विक्षेपे। कर्मणि घञ्
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy