SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१४ ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त प्रास्यत इति प्रासः । संज्ञायाम् इति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं 'भावे' 'अकर्तरि कारके' इति 'कृत्यल्युटो बहुलम्' ( सू २८४१ ) इति यावद् द्वयमप्यनुवर्तते । ३१८८ स्यदो जवे । ( ६-४-२८) स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । श्रन्यत्र स्यन्दः । ३१८६ अवोदैधौद्मप्रश्रथहिमश्रथाः । ( ६-४-२६) अवोदः भवक्लेदनम् । एष इन्धनम् । श्रोन उन्दनम् । श्रन्थेर्नलोपो बृद्ध्यभावश्च । प्रश्रथः । हिमश्रथः । ३१६० घिण्ण्यताः' इति जस्य गः, नलोपे कृते उपधावृद्धिः । रञ्जनक्रियेत्यर्थः रज्जनद्रव्यं वा । प्रास्यत इति । प्रपूर्वाद् 'असु क्षेपणे' इत्यस्माद् 'अकर्तरि च' इति करणे घञि प्रास इति रूपमित्यर्थः । प्रास्यन्ते चिप्यन्ते शत्रवोऽनेनेति प्रांस श्रायुधविशेषः । प्रायिकमिति । स्पष्टमिदं भाष्ये । ततश्च असंज्ञायामपि क्वचिदयं घञ् भवतीति भावः, तदाह को भवतेति । लाभ इति । भावे घञ् । कः लाभः हिरण्यादिप्राप्तिरूपः लब्धः सम्पन्न इत्यर्थः । भवतेत्यस्य लब्ध इत्यत्रान्वयाद् 'नलोक -' इति षष्ठीनिषेधः । अनुवर्तत इति । अत्र व्याख्यानमेव शरणम् ' स्यन्दू प्रस्रवणे' इत्यस्माद् 'अकर्तरि च-' इति घञि क्ङिदभावाद् 'अनिदिताम् -' इति नलोपो न प्राप्तः । तत्र स्यन्देवेत्युक्तौ यद्यपि नलोः सिध्यति । तथापि कृते नलोपे उपधावृद्धिः स्यात् । तंत्र नलोपमुपधावृद्धयमावं च प्रापयितुमाह स्यदो जवे । स्यदो वेग इति । वेगे रूढोऽयम् । अन्यत्रेति । प्रस्रवणे इत्यर्थः । श्रवोदधौ । अबोद, एध. श्रो, प्रथ, हिमश्रथ, एषां द्वन्द्वः । अवोद इति । घञि नलोपो निपात्यते । कृते नलोपे आद्गुणः । लघूपधगुणस्तु न भवति । 'न धातुलोपे -' इति निषेधात् । एध इति । 'ञिइन्धी दीप्तौ' इत्यस्माद् घनि नलोप:, 'न धातुलोप-' इति निषेधं बाधित्वा गुणश्च निपात्यते । श्रद्म इति । उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्व श्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति । न च णिच्यपि वृद्धिनिषेधः शङ्कयः । 'नोदात्त - ' इत्यत्र कृतीत्यनुवृत्त्या णिचि निषेधाभावात् । न चैवमपि 'मितो दुख. ' इति ह्रस्वः स्यादिति शङ्खयम्, वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणेन ह्रस्वाभावसिद्धेः । परन्तु जिन्तकल्पनायामर्थो भिद्यत इति भावः । वस्तुतस्तु निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिति विवक्षायां तु न दोष इत्यवधेयम् । एवं च ' रोगी चिरप्रवासी पराजभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥' इत्यादिकविप्रयोगाः साधव एवेति बोध्यम् । अवोदै । अवोद इति । उन्दी क्लेदनेऽ वपूर्वः । घञि नलोपो निपात्यते । एध इति । इन्धेर्घञि नलोपो गुणश्च निपात्यते । ' न धातुलोप-' इति निषेधादप्राप्तगुणस्य निपातनमिति ज्ञेयम् । श्रद्म इति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy