SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३१२] सिद्धान्तकौमुदी। [उत्तरकृदन्तव्रजति । परत्वादयं कादीन्बाधते । कम्बलदायो व्रजति । ३१८२ पदरुजविशस्पृशो घञ् । (३-३-१६) भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः। ३१८३ सृ स्थिरे। (३-३-१७) स इति लुप्तविभक्निकम् । स्थिरे कर्तरि सते: घन्स्यात् । सरति कालान्तरमिति सारः । 'व्याधिमत्स्यबलेषु चेति वाच्यम्' (वा २१७४) । प्रतीसारो व्याधिः । 'उपसर्गस्य-' इति दीर्वः, अन्तर्भावितएयर्थोऽत्र सरतिः । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । 'सारो बल्ले दृढांशे च'। ननु ण्वुला बाधितस्याणः प्रतिप्रसवेऽपि 'आतोऽनुपसर्गे-' इति कप्रत्ययः कम्बलदायो व्रजतीत्यत्र दुर्निवारः, कप्रत्ययस्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तः । न चाय वैशेषिकोऽरिवधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् , न ह्ययमपूर्वोऽरिवधिः, किंतु लाघवात् 'कर्मण्यम्' इत्यणेवात्र प्रतिप्रसूयते । स च 'कर्मण्यण' इत्यण सामान्यविहितः 'आतोऽनुपसर्गे कः' इति वैशेषिकस्य नापवादः, प्रत्युत कप्रत्यय एव तदपवादः । अतः कम्बलदायो व्रजतीत्यत्र कर्मण्यणपवादं तुमुण्वुलाविति ण्वुलं बाधित्वा कप्रत्ययः स्यादित्यत आह परत्वादयं कादीन् बाधत इति । श्रादिना सामगो गुरुकुलं व्रजतीत्यादौ गापोष्टगित्यादिसंग्रहः । अण्कर्मणि चेति ह्यावर्तते । प्रतिप्रसवविधिरपूर्वविधिश्च । तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्तिः । अपूर्वविधिविहितस्य त्वणः तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रत्यया अणा अनेन बाध्यन्त इत्यर्थः । एतच्च भाष्ये स्पष्टम् । इत ऊर्ध्वम् 'लुट् शेषे च' इत्यादिसूत्रेषु क्रियायां क्रियायामिति निवृत्तम् । भविष्यतीत्येवानुवर्तते इति बोध्यम् । पदरुज। कर्तरीत्येव। पद्यतेऽसाविति । करणस्याप्यत्र विवक्षातः कर्तृत्वम् । 'एरच' इत्यतः प्राग् घअधिक्रियते । स स्थिरे । लुप्तविभक्तिकमिति। लप्तपञ्चमीकमित्यर्थः । स्थिर कर्तरीति। स्थिरे इति कर्तृविशेषणम्। न तूपपदमिति भावः । सतॆरिति । भ्वादेर्नुहोत्यादेश्च ग्रहणम् , न तु जुहोत्यादेरेव, व्याख्यानात् , तदाह सरति कालान्तरमिति सार इति । अर्धर्चादिपाठात् पुंस्त्वं क्लीबत्वं च । अत एव च स्थिर इति नोपपदम् । व्याधीति । वार्तिकमनास्तीति भावः । पदरुज । पद्यतेऽसाविति । करणस्य कर्तृविवक्षात्र बोध्या । पद्यते गच्छति येनेति फलितोऽर्थः । सृस्थिरे । सर्तेरिति भ्वादेर्जुहोत्यादेश्च प्राणं स्थिरग्रहणम् प्रत्ययार्थस्य कर्तुविशेषणं न तूपपदमिति ध्वनयन्नाह स्थिरे कर्तरीति। अर्धर्चादिषु सारशब्दपाठोऽत्र मानम् । व्याधीत्यादि । स्थिरार्थमिदं वचनम्। तेन विसारो मत्स्य इत्यत्र विविधं सरतीत्यर्थः संगच्छते । अतीसार इति । 'उप.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy