SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८ ] बालमनोरमा तत्त्वबोधिनीसहिता [३११ पलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन्स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते, तेनेह न-भूतानि कालः पचतीति वार्ता' । ३१८० भाववचनाश्च । (३-३-११) । भाव इत्यधिकृत्य वक्ष्यमाणा घनादयः क्रियाथोयां क्रियायां भविष्यति स्युः । यागाय याति । 'तुमर्थात्-' (सू ५८२) इति चतुर्थी । ३१८१ अएकर्मणि च । (३-३-१२) कर्मण्युपपदे क्रियार्थायां कियायां चारस्यात् । एखुखोऽपवादः । काण्डलावो बहुलमन्नं भुङ्क्ते इत्यर्थः । प्रभूततेति । अन्नस्येति शेषः। कालसमयवेलासु । अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् । ननु कालपर्यायाणां कतिपयानां प्रहणात्तदितरस्मिन् अनेहादिशब्दे उपपदे न स्यादित्यत आह पर्यायोपादानमर्थोपलक्षणार्थमिति । अनुवर्तत इति । प्रैषातिसर्गसूत्रादिति भावः । भूतानीति । पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकारं प्रापयति इति वार्ता लोकवृत्तान्त इत्यर्थः। भाववचनाश्च । कियार्थायां कियायामिति भविष्यतीति चानुवर्तते । भावे चेत्येव सिद्धे वचनग्रहणस्य प्रयोजनमाह भाव इत्यधिकृत्येति। भावे इत्यधिकृत्य घमादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थायां क्रियायाम् उपपदे भविष्यति काले विशेषविहितेनापि तुमुना समुच्चिता भवन्तीत्यर्थः । न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् , 'कल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति' इत्युक्तेरिति भावः । ननु यागाय यातीत्यत्र यागस्य संप्रदानत्वाभावात् कथं चतुर्थी । नापि तादर्थ्य चतुर्थी, तादर्थ्यस्य प्रत्ययेनैव लाभादित्यत आह तुमर्थादिति । अण् कर्मणि च । चकारेण क्रियार्थायां क्रियायामिति समुच्चीयते , तदाह क्रियार्थायां क्रियायां चेति । तथा च क्रियार्थायां कियायां कर्मणि चेत्युपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् । कञर्थकोऽयमण् , कर्तरि कृदित्यधिकारात् । अत्र 'गवुल्तृचौ' इति बाधित्वा 'कर्मण्यण' इति सामान्यविधिना अण प्राप्तः, तं तावत्किया र्यायां क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल बाधितुमुद्युक्ते, पुनरावविधिसामर्थ्येन वाऽसरूपविधेरत्राप्रवृत्तेरुतत्वात् । तमिमं एवुलं बाधितुमयमरिवधिः । तदाह एवुलोऽपवाद इति । 'तुमुन्ण्बुलौ' इति विहितस्य एवुलोऽपवाद इत्यर्थः । एवं च ण्वुला बाधितस्य 'कर्मण्यण' इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् । भोक्तुमिति । भोक्तुं समर्थ इत्यर्थः । उपलक्षणार्थमिति । तस्य फलमाह अनेहेति । 'कालो दिष्टोऽप्यनेहापि' इत्यमरः । तेनेह नेति । अनुवादेन न भवतीत्यर्थः । यागायेति । यष्टुमिल्यर्थः । 'तुमर्थाच भाववचनात्' इति चतुर्थी । एखलोऽपवाद इति । 'अव्ययकृतो भावे' इति भावे विहितत्वात्तमुनः प्राप्तिरेव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy