________________
३१० ]
सिद्धान्तकौमुदी। [उत्तरकृदन्तः वा । ३१७७ शकधृषक्षाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमुन् । (३४-६५) एखूपपदेषु धातोस्तुमुन्स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोती. त्यादौ । अर्थग्रहणमास्तिनैव संबध्यते, अनन्तरस्वात् । अस्ति भवति विद्यते वा भोकम् । ३१७८ पर्याप्तिवचनेष्वलमर्थेषु । (३-४-६६) पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन्स्यात् । पर्याप्तो भोकम् , प्रवीणः कुशलः पटुरिस्यादि । पर्याप्तिवचनेषु किम्-प्रलं भुक्वा । अलमर्थेषु किम्-पर्याप्तं भुते । प्रभूततेह गम्यते न तु भोकः सामर्थ्यम् । ३१७६ कालसमयवेलासु तुमुन् । (३-३-१६७ ) पर्यायोपादानमर्थो. इच्छतीत्युपपदार्थस्य इच्छाया भोजनोद्देश्यत्वानावेऽपि तुमुन् इच्छार्थेष्वित्यर्थग्रहणस्य प्रयोजनमाह वष्टि वाञ्छति वेति । यद्यपि वशेः छान्दसेषु परिगणनं धातुपाठे। तथापि वष्टि भागुरिः-' इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भावः । शकष । 'शकषज्ञा-' इति सूत्रमप्यक्रियोपपदार्थम् । शक्नोति भोक्तुमिति । अत्र शक्त. भॊजनोद्देश्यत्वाभावेऽपि तुमुन् । एवमिति । धृष्णोति जानाति ग्लायति घटते प्रारभते लभते क्रमते उत्सहते अर्हति वा भोक्तुमित्युदाहार्यम् । अस्तिनैवेति । न तु शकादिनत्यर्थः । कुत इत्यत आह अनन्तरत्वादिति । संनिहितत्वादित्यर्थः । पर्याप्तिवचने । पर्याप्ति इत्यस्य विवरणम् पूर्णतेति । अलमर्थेष्वित्यस्य विवरणम् सामर्थ्यवचनेविति । पर्याप्तो भोक्तुमिति । अन्यूनसामर्थ्यवानित्यर्थः । वचनग्रहणस्य फलमाह प्रवीण इत्यादि । अलं भुक्त्वेति । अत्र अलमिति प्रतिषेधार्थकम् । न तु पर्याप्त्यर्थकमिति भावः । पर्याप्तं भुङ्क्ते इति । करोतीत्यत्रानभिधानानेति । अत्र निष्कर्षमाहुः-उक्तविषये इच्छन्कर्तुमिति प्रयोगाभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ नु 'तुमुन्ण्वुलौ-' इति सत्रेण स्यादिति । तचिन्त्यम् । करोतीत्यर्थे तुमुनः प्राप्तेरेवाभावात् । तस्य भावार्थकत्वात् । इह च लटा कप्रतीतेः । किंचच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तमिच्छन्निति प्रयोगस्य सकलसंमतत्वात् । पदानुपूश्चिाहर पात्रं पात्रमाहरेत्यादाविव स्वेच्छायत्त. त्वात् । विस्तरस्त्विह मनोरमादावनुसन्धेयः । वष्टीति । वश कान्तौ कान्तिरिच्छेति वशधातुरपीच्छार्थकः । शकधृष । अयमप्यकियार्थोपपदार्थ आरम्भः । भोक्तुं शक्नोति धृष्णोति जानाति इत्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च गम्यते। ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते । भोक्तुं घटते इत्यत्र तु भोक्तुमहतीति योग्यता । प्रारभते भोक्तुमित्यत्र भोक्तुं प्रक्रमते उत्सहते इति भुजेरायावस्था । लभते इत्यत्राप्रत्याख्यानमस्ति भोक्तुमित्यादौ तु संभवमात्रम् । पर्याप्तो