________________
प्रकरणम् ६८] बालमनोरमा-तस्वबोधिनीसहिता [३०६ याति । कृष्णं दर्शको याति। अत्र वाऽसरूपेण तृजादयो न । पुनण्वुलुक्के । ३१७६ समानकर्तृकेषु तुमुन् । ( ३-३-१५८) प्रक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्स्यात् । इच्छति भोकम् , वष्टि वान्छति षष्ठी। कृष्णकर्मकभविष्यदर्शनार्थ यानमित्यर्थः । अत्र यातीत्युपपदम् । अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानार्थत्वं तुमुना द्योत्यं वाच्यं वा। कृष्णं दर्शको यातीति । कृष्णं द्रक्ष्यम् तदर्थ यातीत्यर्थः । 'अकेनोर्भविष्यदाधमर्ययोः' इति न षष्टी। ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहितानां तृजादीनामप्रवृत्तावति एवुल्विषये कतरि तृजादयः कुतो न स्युः। न च विशेषविहितेनानेन रावुला तृजादयो बाध्यन्त इति वाच्यम् । वासरूपविधिना तद्बाधस्य पाक्षिकत्वादित्यत आह अत्रेति । क्रियार्थक्रियोपपदे विषये वासरूपविधिना पक्ष प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः । श्रादिना 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यादिसंग्रहः । कुतोऽत्र तृजादयो नेत्यत आह पुनरावलक्लेरिति । 'एवुल्तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् कियार्थक्रियोपपदे विषये भवतीति पुनरिह एल्विधानात् तदितरतृ जादयो न भवन्तीति विज्ञायत इति भावः । समानकर्तृकेषु । 'तुमुन्ण्वुलौ कियायाम्-' इत्येव सिद्धे किमर्थमिदमित्यत आह अक्रियार्थेति । इच्छार्थेष्विति । 'इच्छार्थेषु लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भावः। इच्छति भोक्तुमिति । अत्र क्रिया अर्थः प्रयोजनं यस्याः सा कियार्था तस्याम् । अत्रेदं बोध्यम्-तुमुन्वुलोः कृत्त्वाविशेषेऽपि 'अव्ययकृतो भावे' इति वचनाद्भावे तुमुन् । रावुल् तु कर्तरि क्रियायामिति सप्तमीनिर्देशात्तद्वाचकस्य यातीयादेः 'तत्रोपपदं सप्तमीस्थम्' इत्युपपदत्वमिति । कृष्णं द्रष्टुमिति । कृष्णकर्मकं यद्भविष्यदर्शनं तत्प्रयोजकं यानमित्यर्थः । कृष्णं दर्शक इति । कृष्णकर्मकभविष्यदर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः । कियायां किम् , भिक्षिष्ये इत्यस्य जटाः । इह भिक्षार्था जटाः ताश्च द्रव्यं न तु किया, भिक्षितुं जटा इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः । क्रियार्थायां किम् । धावतस्ते पतिष्यति दण्डः। अस्त्यत्र धावत इति क्रिया न त्वसौ दण्डपतनार्था । धावनं तु दण्डपतने हेतुर्भवति न 'तूद्देश्यमिति दिक् । समानकर्तृकेषु । अक्रियार्थेति । भोक्तुमिच्छतीत्यत्र भोजनविषयिणीच्छेति प्रतीयते न तु भोजनार्थेच्छेति । अतः पूर्वणात्राप्राप्तिरिति भावः। सूत्रस्थसमानशब्द एकतावचन इत्याह एककर्तृकेष्विति । एकेति किम् , पुत्रस्य पठनमिच्छतीति । पुत्रस्येति कर्तरि षष्ठी। पुत्रकर्तृकं पठनमित्यर्थः । इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छृतीति प्रयोगः स्यात् । देवदत्तं भुजानमिच्छतीति काशिका । अत्र काशिकायामुक्तम् इच्छन्