SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०७ अथ उत्तरकृदन्तप्रकरणम् ६८। ३१६६ उणादयो बहुलम् । (३-३-१) एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूमाः । 'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम् )। ३१७० भूतेऽपि अथ उत्तरकृदन्तप्रक्रिया निरूप्यन्ते। उणादयो बहुलम् । तृतीयेऽध्याये तृतीयपादस्येदमादिम सूत्रम् । वर्तमाने संज्ञायां चेति । 'वर्तमाने लट्' इत्यतः 'पुवस्संज्ञायाम्' इत्यतश्च तदनुवृत्तेरिति भावः । अत एव नजि हन एह च नपूर्वाद्धन्तेरसिप्रत्यये प्रकृतेः एहादेशे व्युत्पनः अनेहस्शब्दो वर्तमानकाल एवेत्युक्तं भाष्ये । संज्ञाशब्दश्चात्र रूढशब्दपरः वैदिकानामपि शब्दानामुपलक्षणम् । अत एव 'नगमरूढिभवं हि सुसाधु' इति वार्तिकम् । वैदिका रूढशब्दाश्चौणादिका इति भाष्यं च संगच्छते । रूढाश्चैते उणादिप्रत्ययान्ता अवयवार्थशून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः । उणादयो वेत्यनुक्त्वा बहुलग्रहणस्य प्रयोजनमाह । केचिदविहिता अप्यूह्या इति । तदेवाह संशास्वित्यादि । भाष्यस्थोऽयं श्लोकः । डित्यो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासंभवमूयाः । गुणनिषेधादिकार्यवशाद् अनूबन्धं विद्यात्। अनूबन्धमित्यत्र 'उपसर्गस्य घञ्यमनुष्ये-' इति दीर्घः। एतद् उणादिषु शास्त्रं शासितव्यम् । 'कृवापाजि-' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि, अस्यैव बहुलप्रह. उणादयो बहुलम् । 'वर्तमाने लट्' इत्यतो वर्तमानग्रहणं 'पुवः संज्ञायाम्' इत्यतः संज्ञाप्रहणं चानुवर्तते तदाह एते इति । अत्र हि सूत्रे 'धातोः' 'प्रत्ययः' 'कृदतिङ्' इति चानुवर्तते, तेन 'कृवापाजिमि-' इत्यादिना विहितानामष्टाध्यायीबहिभूतानामप्युणादीनां प्रत्ययसंज्ञा कृत्संज्ञा च सिध्यति । तथा चोणादिप्रत्ययाः सर्वे धातोः परत्र 'कर्तरि कृत्' इति कर्थे भवन्ति । उणादिप्रत्ययान्तस्य 'कृत्तद्धित-' इति प्रातिपदिकसंज्ञायां खाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति । अपरिपूर्णानामुणादीनां परिपूरणार्थ बहुलग्रहणम् । तस्य फलमाह केचिदविहिता अपीति । हृषेरुलज्विहितः स तु शङ्करपि भवति शकुलेति प्रयोगदर्शनात् । किंच फिडफिप्रत्ययौ कुत्रापि न विहितौ अरुह्येते ऋफिडः ऋफिडः इति तयोः कित्त्वं च कल्प्यते। तथा षण्ढ इत्यत्र सत्वाभावश्चेत्यादि । संशस्विति । अनादिसंज्ञास्वेव न तु सर्वास्वियाहुः । 'हृषेरुलच्' इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्यते । तेन शकुलेति सिद्धम् । ऋगता. वित्यादिभ्यः फिडफिड़ादिप्रत्यया गृह्यन्ते। कार्याद्विधादिति । ऋफिड इत्यादी गुणप्रतिषेधादिकार्यानुरोधादनुबन्धं ककारादिकं विद्यात् । अनूबन्धमित्यत्र 'उपसर्गस्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy