________________
३०६ ]
सिद्धान्तकौमुदी ।
[ उणादि •
,
"
1
दात्ततयानुकूलश्च । वेदभाष्ये ऐवमेव स्थितम् । इत्यादयो द्वितीयपादे प्रमादाः । तृतीयपादेऽपि स्तनिदूषिपुषिगदिमदिहृदिभ्यो गेरित्नुचिति प्राचा पठितं तत्र दूषिहदी केषामपि वृत्तिकृतां प्रत्थे न पठितौ । दूषयित्नु: हृदयित्नुरिति प्रयोगोऽप्याक रे न दृष्टः । स्वनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठः । ' धुषिगन्धिमण्डिजनिर्गामभ्यः' इति दशपायामधिकं पठितमित्यन्यदेतत् । यदपि 'श्रुदक्षिस्पृहिगृहिदृजृभ्य आय्यः' इति पठित्वा दराय जराय्य इति प्राचोकं तदपि न । दृद्धृग्रहणस्याकरानारूढत्वात् । यदपि 'जृविशिभ्यां झच्' 'गण्डिमण्डिजनिनन्दिभ्यश्च' इत्युक्त्वा गराडयतो जनयन्त इत्युदाहृतं प्राचा, यश्च गण्डयन्त इति प्रतीकमुपादाय मेघनामेदमिति व्याख्याय गडि वदनैकदेशे इति व्याख्यातृभिर्विवृतं तत्सर्वं प्रामादिकम् । तथाहि उणादिषु गडीति निरनुषङ्गं पठित्वा ग्रड सेचने इति विवृतम्, 'श्रयामन्ता-' इति सूत्रे वृत्तिन्यासहरदत्तादिसकलप्रन्थेष्वेवम्, माधवप्रन्थेऽप्येवमेव । युक्तं चैतत् । मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवानुगुणत्वाद् जनेः पाठोऽप्यप्रामाणिकः । जिधातुं पठित्वा जयन्तः पाकशासनिः इति सर्वैर्विवृतत्वात् जनयन्त इति लक्ष्यस्य कैरपि श्रप्रदर्शितत्वात् । श्रप्रसिद्धत्वाच्चेत्यादयस्तृतीयपादे प्रमादाः । अथ चतुर्थे । यदपि कृगृस्तृजागृभ्यः क्किन् । कीर्तिः गीर्विः स्तीर्विरिति प्राचोक्तं तदपि लिपिभ्रमप्रत्युक्तमेव । विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने, इति प्राचो प्रन्थं विवृण्वतामुक्तिरपि मूलाशुद्ध्यै वाशुद्धा। 'जृशृस्तृजागृभ्यः क्विन्' इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः । जीविः पशुः । शीर्विहिंस्रः । स्तीर्विरध्वर्युरिति च तत्तद्ग्रन्थेषूपपादितम् । स्तु इत्यस्य दीर्घान्तत्व एवहि 'ऋत इद्वातो.' इतीत्वं लभ्यते न तु ह्रस्वान्तत्वेऽपि, तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक् । यदपि प्राचोक्तं-- 'ग्लाज्याहात्वरिभ्यो निः' इति तदप्यनाकरम् । आकरे हि 'वीज्याज्वरिभ्यो निः' इति पठित्वा सूत्रद्वयानन्तरं ‘वह्निश्री-' इति सूत्रे 'ग्लाहात्वरिभ्यो नित्' इति सूत्रितत्वात् । 'तूर्णी रथः सदानवः' इत्यादावाद्युदात्तदर्शनाच्च । नच 'स्त्रियां क्तिन्' इत्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिसूत्रस्थमिति वाच्यम् । एवमपि त्वरतेः पाठस्यानुचितत्वात् । न त्यसौ वार्तिकेऽस्तीति दिक् । एवं संस्त्याने रत्यायतेड्रेट् इत्यपि प्राचोदाहृतमनाकरम् । स्त्यायतेर्बूडित्येव सूत्रस्याकरे पञ्चपाय दशपायां चोफलम्भात् । 'संस्त्याने स्त्यायतेड्रेट् स्त्री सूतेः सप्रसवे पुमान्' इति भाष्ये लोकपाठः स एव माधवेनोपन्यस्तः न तु सूत्रपाठस्य तथात्वं दृश्यते, एवं तद्प्रन्थत्र्याख्यातृणामपि प्रमादा ऊत्थाः । तद्यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् 'मनेरुच्चोपधायाः' इति, न ह्येवंविधं सूत्रं पञ्चपाद्य दशपायां वास्ति, अत इत्यनुवर्तमाने 'मनेरुच्च' इत्येव सूत्रितत्वादिति दिक् । इति चतुर्थपादे प्राचः प्रमादाः !