________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०५ प्रथमः । ७४७ चरेश्च । चरमः । ७४८ मङ्गेरलच् । मङ्गलम् ।
इत्युणादिषु पञ्चमः पादः। निति णत्वम् । ङीषिति । 'कृदिकारादक्विनः' इत्यनेन । 'प्रहणी रुक् प्रवाहिका' इत्यमरः। प्रथेरमच । प्रथ प्रख्याने अस्मादमच् स्यात् । प्रथम इति रूपम् । चरेश्च । चर गतिभक्षणयोरस्मादमच्स्यात् । प्रथिचरिभ्यामित्येकयोग एवं कर्तु शक्यः । मझेरलच । मगिर्गत्यर्थः । अस्मादलच्प्रत्यय इत्यर्थः । मङ्गलमिति । धातोरिदित्त्वान्नुम् , 'श्वश्श्रेयसं शिवं भद्रं कल्याणं मलं शुभम्' इत्यमरः। इति सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायाम् उणादिषु पञ्चमः पादः समाप्तः । प्रह उपादान । कीषिति । 'कृदिकारात्' इत्यन्तेन। 'ग्रहणी रुक् प्रवाहिका' इत्यमरः। प्रथः। प्रथ प्रख्याने । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इति मेदिनी। 'प्रथम वरम-' इति वैकल्पिकसर्वनामत्वात्पक्ष जसः शीभावः, प्रथमे प्रथमाः। चरेश्व। चर गतिभक्षणयोरस्मादमच्स्यात् । चरमे चरमाः । योगविभागश्चिन्त्यप्रयोजनः । प्रथिचरिभ्यामित्येव सुवचम् । मङ्गे । उखउखीत्यादिदण्डके गत्यर्थको मगिः पठ्यते। 'कल्याणं मङ्गलं शुभम् । मङ्गलो ग्रहभेदः । 'मला सितदूर्वायामुमायां पुंसि भूमिजे । नपुंसकं तु कल्यणे सर्वार्थ रक्षणेऽपि च' इति मेदिनी। भावे व्यजि मारल्यम् | 'तत्र साधुः' इति यत् +-'मङ्गल्यः स्यात्त्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्प्यो मिसि शुक्लवचासु च । रोचनायामथो दन्नि क्लीबं शिबकरे त्रिषु' इति मेदिनी। इत्युणादिषु पञ्चमः पादः। उणादिप्रस्ययाः सन्ति पादोत्तरशतत्रयम् । तेषां विवेचनं त्वत्र ज्ञानेन्द्रस्वामिभिः कृतम् ।
प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां, सोऽप्युपन्यासो नैकप्रघट्टकतया कृतः, किंतु विच्छिति स्पष्टम् । तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव काश्चिरप्रमादान्दर्शयामः । 'भजो रिवः' इति शिवप्रकरणे 'छन्दसि सहः' 'वहश्च' इत्युपन्यस्य 'परौ बजेः षः पदान्त' इति रिवस्तेनैव षः परिवाहित्ययं हि प्राचो प्रन्थस्तयाख्यायां तत्पौत्रेण पञ्चपााणादिसूत्रे इदं पठ्यते इत्युक्तं तदुभयमपि प्रामादिकम् । 'किब्वचि-'इत किन्दी हि प्रकम्य 'परौ बजेः-' इति सूत्रस्य पाठात् । अस्मिन्नंशे पञ्चपादीदशपाचोरेकवाक्यत्वात् । यदपि प्राचो ग्रन्थे क्वचित्पठ्यते चिणिति तदप्यपाणीनियत्वादुपेक्ष्यम् । एतेन प्रघट्टकान्तरे 'स्तु दुपरिवाजा दीर्घश्व' इति केचिदिति प्राचोअन्धोऽपि प्रत्युक्तः । सूत्रारूढे सर्वसंमते चार्थे केचिदित्युक्तेः अप्रामाणिकत्वात् । यदपि 'धनर्तिचक्षिवपितपिजनियजेरुस इस्' इति पठितं तदप्यनाकरम् । तथा हि जनेरुसिः अर्तिपूवपियजितनिधनितपिभ्यो नित् । ऐतेर्णिच । चक्षेः शिश्चेति सर्वसंमतः पाठः । 'तपूंषि तस्मै वपुषो वपुष्टरम्' इत्यादिमन्त्रेषु आधु