________________
३०४ ]
सिद्धान्तकौमुदी ।
[ उणादि
अमेस्तुट् च । अन्तर्मध्यम् । ७३६ दहेर्गो लोपो दश्च नः । गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः । नगः । ७४० सिचेः संज्ञायां हनुमौ कश्च । सिञ्चतेः कप्रत्ययो हकारादेशो नुम्च स्यात् । सिंहः । ७४१ व्याङि प्रातेश्च जातौ । कप्रत्ययः स्यात् । व्याघ्रः । ७४२ हन्तेरच् घुर च । घोरम् । ७४३ क्षमेरुपधालोपश्च । चादच् । क्षमा । ७४४ तरतेर्ह्रिः । त्रयः । त्रीन् । ७४५ ग्रहेनिः । प्रहणिः । ङीष् । ग्रहणी व्याधिभेदः । ७४६ प्रथेरमच् ।
याचने अस्मादुरन्स्यात्, उरनि अकार उच्चारणार्थः, नकार इत् । चत्वार इति । चतुरनडुहोरित्याम् । प्राततेररन् । प्रपूर्वाइत सातत्यगमने इत्यस्मादरन् प्रत्ययः, अकारः उच्चारणार्थः । प्रातरिति । स्वरादिपाठादव्ययत्वम् । अमेस्तुट् च । श्रम गत्यादिषु अस्मादरन् स्यात्, तस्य तुडागमश्च । दहेर्गो लोपो दश्च नः । दह भस्मीकरणे अस्माद् गप्रत्ययः, धातोरन्त्यस्य लोपः, दकारस्य नकारश्चेत्यर्थः । सिचेः संज्ञायाम् । षिच क्षरणे अस्मात्कप्रत्ययो धातोरन्त्यस्य हकार | देशो नुम् स्यात् । व्याङि घ्रातेश्व जातौ । विङित्युपसर्गे उपपदे घ्रा गन्धोपादान इत्यस्मात् कप्रत्ययः स्याद् जातौ वाच्यायाम् । व्याघ्र इति । कित्त्वादातो लोप इटि चेत्या लोपः । हन्तेरच् घुर च । हन हिंसागत्योः अस्मादच्प्रत्ययः, धातोर्घुरादेशश्च । घोरमिति । लघूपधगुणः । क्षमेरुपधालोपश्च । क्षमूष् सहने अस्मादच्प्रत्ययः धातोरुपधाया लोपश्चेत्यर्थः येः । ' दमावनिर्मेदिनी मही' इत्यमरः । तरतेङ्घ्रिः । तू प्लवनतरणयोः अस्माद् डिः स्यात् । त्रिरिति । ङित्त्वाट्टिलोपः । तस्य नित्यं बहुवचनान्तत्वादाह । त्रय इति । ग्रहेरनिः । ग्रह उपादाने अस्मादनिप्रत्ययः । ग्रहणिरिति । अट्कुप्वा
1
दुरन्स्याद्दकार उच्चारणार्थः । 'चतुरनडुहोरामुदात्तः' इत्याम् । चत्वारः । प्रादतेः । अत सातत्यगमने प्रपूर्वादस्मादरन्स्यात् । रेफादकार उच्चारणार्थः । स्वरादिपाठादव्यय• त्वम् । प्रातर् । श्रमेः । श्रम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च । अन्तःशब्दोऽपि प्रातःशब्दवद् श्रव्ययम् । दहेः । दह भस्मीकरणे । 'नगो महीरुहे शैल भास्करे पवनाशने' इति मेदिनी । सिचेः । षिच क्षरणे । हकारादेश इति । धातोरन्त्यस्येत्यर्थः । 'सिंहः कण्ठीरवे राशौ सत्तमें चोत्तरस्थितः । सिंही क्षुद्रवृत्योः स्याद्वासके राहुमातरि' इति विश्वः । व्याङि । घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात् कित्त्वादातो लोपः । व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकायां च योषिति' इति मेदिनी । हन्तेः । इन्तेरक् स्याद्धातोर्पुरादेशश्च । 'घोरं भीमे हरे' इति विश्वः । क्षमेः । क्षमूष् सहने । 'दमावनिर्मेदिनी मही' इत्यमरः । तरतेः । तॄ प्लवनतरणयोरस्माद् ड्रिः स्यात् । ङित्त्वाट्टिलोपः । ग्रहेः ।