________________
प्रकरणम् ६०] बालमनोमा तत्त्वबोधिनीसहिता। [३०३ दिकाद् श्रः । रेफः । ७३३ लीरीडोह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। तरौ प्रत्ययो क्रमारस्तो धातोहस्वः, प्रत्ययस्य पुट । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् । ७३४ क्लिशरीच्चोपधायाः कन्लोपश्च लो नाम्च । विशेः कन्स्यादुपधाया इत्वम् , लस्य लोपो नामागमश्च । कीनाशो यमः। कित्त्वफलं चिन्त्यम् । ७३५ प्रश्नोतराशुकर्मणि वरद् च । चकारादुपधाया ईस्वम् । ईश्वरः । ७३६ चतेरुरन् । चत्वारः । ७३७ प्रा (प्रेऽ) ततेररन् । प्रातः । ७३८ ध इति । अतरिति । ऋ गतौ। रिफतेरिति । रिफ कन्थनादिषु अस्माद् अप्रत्यय इत्यर्थः । 'निकृष्ट प्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः । लीरीङोह्रस्वः। लीङ् श्लेषणे, रीङ् श्रवणे, आभ्यो तप्रत्ययरप्रत्ययौ क्रमास्तः, तस्य पुडागमः, धातोहखश्चेत्यर्थः, प्रकृतिप्रत्ययसमुदायेन क्रमाच्छलेषणे कुत्सने च वाच्ये । क्लिशेरीच्चोपधायाः। क्लिशू विबाधने अस्मात्कन्स्याद् धातोरुपधाया ईत्वम् , लकारस्य लोपो नागागमश्च । कीनाश इति । 'कृतान्त पुंसि कीनाशः' इत्यमरः । चिन्त्यमिति। उपधाया ईत्त्वविधिसामर्थ्यादेव गुणो न भविष्यतीति भावः । अश्नोतेराशुकर्मणि । अशू व्याप्ती अस्माद्वरट् स्यात् , उपधाया ईत्त्वं च आशुकर्मणि वाच्ये । ईश्वर इति । ईश्वरो हि प्रार्थितः सन्वरादिकं शीघ्रं दातुं शक्तो भवति । चतेरुरन् । चते 'अधमः स्याद्गद्य ऊनेऽपि' इति मेदिनी । 'अर्वा तुरजमे पुंसि कुत्सिते वाच्यलिङ्गकः । रेफो रवणे पुंसि स्यात्कुत्सिते पुनरन्यवत्' इति च मेदिनी । लीरीङोः । लीङ् श्लषणे, रीङ् श्रवणे । क्रमादिति। श्लेषणे वाच्ये तप्रत्ययः कुत्सिते वाच्ये रप्रत्यय इत्यर्थः । 'लिप्तं विषाक्त भुक्ते च वाच्यवत्स्याद्विलेपिते' इति विश्वः । क्लिशेः। क्लिशू विबाधने । नामागमश्च प्रत्ययस्येति शेषः। चिन्त्यमिति । ईत्वविधानसामर्थ्यादेव गुणाभावसिद्धरिति भावः । 'कीनाशः कर्षकः क्षुदोपांशुधूलिषु वाच्यवत् । यमे ना' इति मेदिनी । प्रश्नोतेः। अशू व्याप्ती अस्मद्वरट् स्यात् । आशुकर्म वरदानादि. किया यस्य तस्मिन्वाच्ये शीघ्रदातरीत्यर्थः । ईश्वर इति । स्त्रियां तु टित्त्वान्लीप् । ईश्वरी । प्रत्ययस्वरेण मध्योदात्ता । ईशेः वनिपि 'वनो र च' इति ङीव्रयोस्तु धातु. स्वरेणाद्युदात्ता । पुंयोगलक्षणे डीषि अन्तोदात्ता। 'स्थेशभासपिसकस:-' इति वरचि। तदन्ताहापि ईश्वरेति विवेकः । 'ईश्वरो मन्मथे शम्भौ नाट्ये स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति मेदिनी । ईश्वरा उमायामिति छेदः । 'ईश्वरः शङ्करेऽधीशे तत्प. ल्यामीश्वरीश्वरा' इति बोपालितः । 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः' इति भारविः । दशपायां तु सूत्रान्तरमपि 'हन्ते रन् घश्च' इति । हन हिंसागत्योरस्माद्रन्प्रत्ययः स्याद् घश्चान्तादेशः । हन्यते गम्यतेऽतिथिभिरिति घरः गृहम् । चतेः। चते याचनेऽस्मा