________________
३०२ ]
सिद्धान्तकौमुदी। [उणदि. विषये । ७२६ ऋजे: कीकन् । ऋजीक इन्द्रो धूमश्च । ७३० तनोतेर्डउः सन्वच्च । 'तितउः पुंसि नीबे च' । ७३१ अर्भकपृथुकपाका वयसि । 'ऋधु वृद्धौ' । अतो घुन् । भकारश्चान्तादेशः। प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् । ७३२ अवद्यावमाधमार्वरेफाः कुत्सिते। वदेनजि यत् । अवद्यम् । अवतेरमः । वस्य पक्ष धः । अवमः अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदाडागमः, धातोर्यलोपः, परिशिष्टान्त्यस्य वकारस्य मकारश्वेत्यर्थः । ममापताल इति । ऋजेः कीकन् । ऋज गतौ अस्मात्की कन्स्यात् । ऋजीक इति । कित्त्वान्न गुणः । तनोतेडउः सन्वञ्च । तनु विस्तारे अस्माड्ड उप्रत्ययः, स सन्वच्च भवति । तितउरिति । डउप्रत्ययस्य सन्वत्त्वाद् द्वित्वमभ्यासेत्त्वं डित्त्वाहिलोपः। डउरिति पृथगुच्चारणसामर्थ्यान्न गुणः। 'प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्' इत्यमरकोशः। अर्भकपृथुकपाका वयसि । एते निपात्यन्ते । निपातनप्रकारमेवाह ऋधु वृद्धाविति । अस्माद् वुन् , अकादेशः, धकारस्य भकारः, लघूपधगुणः । पृथुक इत्यत्राह प्रथेरिति । प्रथ प्रख्याने, अस्मात्कुकन् , धातोः संप्रसारणेन रेफस्य ऋकार: कित्त्वान लघूपधगुणः । पिबतेरिति । पा पाने इत्यस्मादित्यर्थः । 'पोतः पाकोऽर्भको डिम्भः' 'पृथुको चिपिटार्भको' इति चामरः। अवद्यावमाधमावरेफाः। एते निपात्यन्ते । निपातनमेवाह वदेरिति । वद व्यक्तायां वाचि अस्मान्नञि उपपदे यत्प्रत्यय इत्यर्थः । अवतेरिति । अव रक्षणादौ। अधम इत्यत्राह वस्य पक्ष बन्धने । अन्त्यस्येति । वकारस्येत्यर्थः । ऋजेः। ऋजी गतौ । तनोतेः। तनु विस्तोरऽस्माद् डउ. प्रत्ययस्तस्य सन्वद्भावाद् द्वित्वमभ्यासस्यत्वं च डित्त्वाहिलोपः । पृथगुच्चारणसामर्थ्याद् गुणो न । तितउः चालनी । 'सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकत' । 'तितउः परिपवनं भवति' इति पस्पशायां भाष्यम् । 'चालनी तितउः पुमान्' इत्यमरः । 'चालनं तितउन्युक्तम्' इति कोशान्तरम् । 'स्याद्वास्तु हिङगु तितउ' इति पुनपुंसकवर्गे त्रिकाण्डशेषः। अर्भक । एते निपात्यन्ते । निपातनप्रकारमेवाह ऋधु वृद्धावित्यादि । प्रथेरिति । प्रथ प्रख्याने, पा पाने, पिबति स्तनादिकमिति पाकः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च । पृथुकः पुंसि चिपिटे शिशौ स्थादभिधेयवत् । पाकः परिणती शिशौ । केशस्य जरसा शौक्लये स्थाल्यादौ पचनेऽपि च' इति मेदिनी । अवद्या। एते कुत्सिते निपात्यन्ते । वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । 'निकृष्टप्रतिकृष्टा. वरेफयाप्यावमाधमाः' इत्यमरः । 'कुपूयकुत्सितावद्यखेटगर्याणकाः समाः' इति च ।