________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २६६
७०६ अच्तस्य जङ्घ च । तस्य जनेर्जङ्घादेशः स्यादच । जङ्घा । ७१० हन्तेः शरीरावयवे द्वे च । जघनम् । 'पश्चाग्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' । ७११ क्लिशेरन्लो लोपश्च । लकारस्य लोपः । केशः । ७१२ फलेरितजादेश्व पः । पलितम् । ७१३ कृञादिभ्यः संज्ञायां वुन् । करकः करका | कटकः । नरकम्, नरकः । 'नरको नारकोऽपि च' इति द्विरूपकोशः । सरकं
अस्माट्टन्प्रत्ययः स्यात्, धातोरन्त्यनकारस्य लोपश्च । श्रच् तस्य जङ्घ च । तस्येत्यर्थमाह जनेरिति । जनेः अच्प्रत्ययः धातोर्जङ्घादेशश्चेत्यर्थः । अजाद्यतष्टाप् । हन्तेः शरीरावयवे । शरीरावयवे वाच्ये हन्तेरच्प्रत्ययो धातोर्द्वित्वं चेत्यर्थः 1 जघनमिति । हो हन्तेरिति कुत्वम्, अभ्यासाच्चेति वा । श्रमरोक्तिमाह पश्चानितम्ब इति । क्लिशेरन् लो लोपश्च । क्लिशू विबाधने अस्मादन् स्याल्लकारस्य लोपश्चेत्यर्थः । फलेरितजादेश्च पः । फल निष्पत्तौ श्रस्मादितच्प्रत्ययः, आदेः फकारस्य पकारादेशश्चेत्यर्थः । पलितमिति । पलितं जरसा शौक्ल्यम्' इत्यमरः । कृञादिभ्यः संज्ञायां वुन् । डुकृञ् करणे इत्यादिभ्यः संज्ञायां वुस्यात् । करक इति । युवोरनाकावित्यकादेशः । 'कमण्डलौ च करकः' इत्यमरः । कटक इति । कटे वर्षावरणयोः अस्माद् वुन् । 'भूभृन्नितम्बवलयचकेषु कटकोऽखि - प्रादुर्भावे अस्माट्टन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च । 'जटा लग्नकचे मूले मांस्यां प्लते पुनजेटी' इति मेदिनी । जङ्केति । जनेरच्प्रत्यये सति 'अजाद्यतः -' इति टाप् । हन्तेः । देहावयवे वाच्ये इन्तेरच्प्रत्ययः स्याद् द्वित्वं च धातोः । अभ्यासकार्यम्, ‘अभ्यासाच्च' इति कुत्वम् । अमरोक्तिमाह पश्चान्नितम्ब इति । 'जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी । क्लिशेः । क्लिशू विबाधनेऽस्मादन्स्यात् । 'केशः स्यात्पुंसि वरुणे हीबेरे कुण्डलेऽपि च' इति मेदिनी । फलेः । फल निष्पत्तौ 'पलितं जरसा शौक्लयम्' इत्यमरः । ' पलितं शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी । कृञादिभ्यः । डुकृञ् करणे । करकः कमण्डलुः । ' करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ ॥' इति मेदिनी । करका वृष्टिपाषाणः । कटे वर्षावरणयोः, 'कटको वलये सानौ' । 'क्वन् शिल्पिसंज्ञयो: ' इति क्वनाप्ययं सिद्धस्तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु क्वनि । उदासौँनास्तु यत्र कुत्रचिदिति भावः । नृ नये । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । 'नरकः पुंसि निरये देवारातिप्रभेदयोः' इति मेदिनी । उदयनाचा• र्यास्तु नच नरकाण्येव सन्तीति क्लब प्रयुञ्जते तन्निर्मूलमित्याहुः । सृ गतौ । 'सरको - sat शीधुपाने शीधुपाने शीधुनो:' इति मेदिनी । कुर शब्दे । 'कोरकोऽस्त्री कुमले
1