________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६७ यत्प्रत्ययः । पुण्यम् । ६६४ स्रंसेः शिः कुट किच्च । संसतेः शिरादेशो यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् । ६६५ अर्तेः क्युरुच्च । उरणो मेषः । ६६६ हिंसरीरनीरचौ । 'हिंसीरो व्याघ्रदुष्टयोः' । ६६७ उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च । उदरम् । ६६८ डित्खनेर्मुट स चोदात्तः। मजल च डित् स्याद्धातोर्मुट , स चोदात्तः । मुखम् । ६६४ अमेः सन् । अंलः । ७०० मुहेः खो मूर्च । मूर्खः । ७०१ नहेहलो. पूजो यण्णुक् । पूञ् पवने अस्माद्यत्प्रत्ययः णुगागमो ह्रस्वश्च । पुण्यमिति । 'स्याद्धर्ममस्त्रिया पुण्यम्' इत्यमरः । स्रंसेः शि कुट किञ्च । स्रंसु ध्वंसु अधःपतने, अस्माद्यत्प्रत्ययः स च कित् , तस्य कुडागमः, धातोः शिः सर्वादेशश्च । शिक्यमिति । 'भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका' इत्यमरः । अर्ते क्युरुच्च । ऋ गतौ अस्मात्क्युप्रत्ययः, धातोरुकारादेशश्चेत्यर्थः । उरण इति । उत्वं रपरत्वम् । युवोरनाकावित्यनादेशे रषाभ्यामिति णत्वम् । अटकुप्वाङिति तु एतत्सूत्रस्यैव प्रवृत्त्युपपादकम् । हिंसेरीरन्नीरची । हिासे हिंसायामस्माद् ईरन् ईरच् इति प्रत्ययौ स्तः, स्वरे भेदः । उदि टणतेरजलौ । उदि उपपदे दृ विदारणे इत्यस्मादच् अल् इति प्रत्ययौ स्तः । उदो दकारस्य लोपश्चेत्यर्थः । उदरमिति । अजलोः स्वरे भेदः । धातोर्गुणः | डित् खनेर्मुद् । अजलावित्यनुवर्तते । खनु अवदारणे अस्मादच् अल् इति प्रत्ययौ स्तः, तौ च डितौ, धातोर्मुडागमश्चेयर्थः । मुखमिति । डित्त्वाहिलोपः । अमेः सन् । अम गत्यादिषु अस्मात्सन्प्रत्यय इत्यर्थः । अंस इति । 'स्कन्धो भुजशिरोंऽसोऽस्त्री' इत्यमरः । मुहेः खो मूर्च । मुह डित्त्वाहिलोपः । सौरमेः। रमु क्रीडायाम् । पूनः। पूञ् पवने । 'पुण्यं मनोज्ञेडमिहितं तथा सुकृतधर्मयोः' इति विश्वः। स्रंसेः। संसु अधःपतने कित्त्वं तु गुणाभावार्थम् । अतः । ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च रपरत्वम् । 'युवोरनाको' । 'मेढ़ोरधोरणोर्णायुमेषवृष्णय एडके' इत्यमरः। हिंसेः । हिसि हिंसायाम् । उदि। द विदारण। डित्खनेः। खनु अवदारणे, अस्मादजलो स्तः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्' इति मेदिनी । अमेः। श्रम गतो, 'स्कन्धो भुजशिरोंसोऽस्त्री' इत्यमरः । 'अंसः स्कन्धे विभागे च' इति दन्त्यान्ते विश्वः । मुहेः। मुह वैचित्येऽस्मात्खप्रत्ययो धातोर्मुरादेशश्च । मुह्यतीति मूर्खः । 'अज्ञे मूढयथाजातमूखवैधेयबालिशाः' इत्यमरः । नहे। यह बन्धने । अस्मात्खः। 'नखं कररुहे षण्ढे गन्धद्रव्ये नख नखी' इति विश्वः । 'नखी स्त्रीलीबयोः शुक्की